SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ उज्वलम् ॥ ११ ॥ चारणश्रमणस्येदमिति संभाव्य वन्दितुम् । तं साधुमगमत्तूर्णमारुरोह च तं गिरिम् ॥ १२ ॥ आतापयन्तमद्राक्षीदूर्ध्वबाहुं महौजसम् । चारणश्रमणं तत्र, ज्वलन्तमिव पावकम् ॥ १३ ॥ विनयेन तमभ्येत्य, मनन्द्रिं परया मदा । ववन्दे पारितोत्सर्गो, धर्मलाभं मनिर्ददौ॥१४॥बभाषेच कुतस्त्वं भो! चारुदत्त ! समागतः? | चम्पायां यस्त्वया बद्धो, मोचितः खचरोऽस्मि सः ॥१५॥ तत्काल एव संप्राप्तस्वकान्तोऽष्टापदं प्रति । प्रणष्टे प्रतिशत्रौ। | मे, गतोऽहं खं पुरं ततः॥१६॥ कियताऽप्यत्र कालेन, व्रतादानाभिलाषिणा । स्वराज्ये स्थापितः पित्रा, स्वयं च जगहे व्रतम् ॥ १७ ॥ हिरण्यस्वर्णकुम्भाख्यचारणश्रमणान्तिके । अभ्युद्यतविहारी चोपात्तशिक्षो बभूव सः॥१८॥राज्यं पालयतः । स्थित्या, सर्वान्तःपुरशोभने । जाते भायें च मे वर्षे, जयसेनामनोरमे ॥ १९ ॥ मनोरमायामुत्पन्नं, तदा पुत्रद्वयं मम । |एकः सिंहयशानामा, वराहग्रीवकोऽपरः॥ २० ॥ पुत्री गन्धर्वसेना च. गान्धर्वेऽतिविचक्षणा । जज्ञे विजयसेनायाः | सौभाग्यादिगुणोत्तरा ॥ २१॥ अन्यदा सह विद्याभिर्दत्त्वा राज्यं स्वपुत्रयोः । चारणबतिनोरन्तेऽहं तयोराददे व्रतम॥२२॥ द्वीपोऽयं कुम्भकण्ठाख्यो, लवणाम्भोधिमध्यगः। कर्कोटको गिरिश्चात्र, यस्मिन्नातापयाम्यहम् ॥ २३ ॥ देवविद्या धरान् मुक्त्वा, चारणश्रमणांस्तथा । नान्योऽत्र शक्त आगन्तुं, कथं त्वं तुसमागतः?॥२४॥ इत्युक्त्वा विरते साधो Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy