________________
विवक्षितोऽतो देवादीनि सम्यक्त्वमित्युक्तम्, एषां च स्वरूपमिदं-' यस्याष्टादश दोषाः क्रुधादयः क्षयमुपागताः सर्वे ।।
मुक्तिप्रदः स देवो विज्ञेयः केवलज्ञानी ॥ १ ॥ यत्र प्राणिदया सत्यमदत्तपरिवर्जनम् । ब्रह्मचर्यच सन्तोषो, धर्मोऽKd सावभिधीयते ॥२॥ ज्ञानदर्शनचारित्रपरिपालनलक्षणः। अक्षेपमोक्षनगरप्रापको मार्ग इष्यते॥३॥दशविधयतिधर्मरताः ।
समविगणितशत्रुमित्रतृणमणयः । जीवादितत्त्वविज्ञास्तीर्थकरैः साधवः कथिताः ॥४॥ तापच्छेदकषैः शुद्धः, सुवर्णमिव यद्भवेत् । युक्तिसिद्धान्तसिद्धत्वात्तत्तत्त्वमभिधीयते ॥ ५॥ अथवा सूचनात्सूत्र'मितिवचनादेवधर्ममार्गसाधुतत्त्वेषु देवाद्यध्यवसायस्यैव देवादिशब्दैर्विवक्षितत्वादेवो धर्मो मार्गः साधुस्तत्त्वानि चैव सम्यक्त्वमित्युक्तं, ननु च मिथ्यादर्शनस्वरूपमभिधित्सितं तत्किमर्थमप्रस्तुतं सम्यक्त्वस्वरूपमुक्तं?,सत्यं,सम्यक्त्वमिथ्यात्वयोःशीतोष्णस्पर्शयोरिव परस्परविरोधित्वात् सम्यक्त्वस्वरूपे ज्ञाते तद्विरोधिमिथ्यात्वस्वरूपं सुज्ञानं भवतीति ज्ञापनार्थम् अत एवाह-'तब्धिवरीयं मिच्छत्तदरिसणं दे. सियं समये त्ति तरमात्-सम्यक्त्वस्वरूपे ज्ञाते देवधर्ममार्गसाधुतत्त्वषु यथाऽवस्थितरुचिपरिणामरूपाविपरीतम्-अन्यथा, यथारागादियुक्तोऽपि देवो, नास्ति वा देव; तथा चोक्तम्-"पत्ती पत्ती पाणिउ पाणिओ, डूंगरु हूंता कक्करु आणिओ। कक्करु । अग्गइ वज्जइ तृरा, देवखुन माइ विगोया पूरा ॥१॥” इति,प्राणिव्यपरोपणादिनाऽपि धर्मो नास्ति वा धर्मः,तदुक्तम्-"केण
Jain Educationa
l
For Private Personel Use Only
Dowww.jainelibrary.org