SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ नवपद - वृत्तिम्मू. देव. ड. यशो. ॥ ४ ॥ Jain Education Inter भेदो, 'यथा जायते' येन प्रकारेणोत्पद्यते इति तृतीयो भेदः, यथा चात्र दोषाश्च गुणाश्च दोषगुणाः, यथा तद्विपक्षा दोषाः संभवन्तीति चतुर्थो भेदः, यथा च तदासेवने गुणाः संभवन्तीति पञ्चमो भेदः, 'यतने 'ति गुरुलध्वालोचन - रूपा यतना यथैतेषु कर्त्तव्येति षष्ठो भेदः, यथाऽतिचाराः तदतिचरणरूपास्तेषु संभवन्तीति सप्तमो भेदः, 'भङ्ग' इति यथा चैतेषां भङ्गो भवति - अभावः सर्वथा संपद्यत इत्यष्टमो भेदः, तथा भावना ज्ञेया, यथैतेषां गुणानां वृद्ध्यर्थं भावना भाव्या इति नवमो भेदः, एते नव भेदाः प्रत्येकं मिथ्यात्वादिषु ज्ञेयाः, भेदा-हाराणीति गाथार्थः ॥ २ ॥ व्याख्यातानि नामतो नव द्वाराणि, साम्प्रतं 'यथोद्देशं निर्देश' इति न्यायान्मिथ्यात्व मेवाद्यद्वारेण व्याचिख्यासुराह - देव धम्मो मग्गो साहू तत्ताणि चैव सम्मत्तं । तव्विवरीयं मिच्छत्तदरिसणं देसियं समए ॥ ३ ॥ देवो धर्मों मार्गः साधवस्तत्त्वानि चैव सम्यक्त्वं, जिनागमाभिहितरूपाणि सर्वाणीति विशेषणपदं चकारे - णानुक्तसमुच्चयार्थेन सूचितम् एवकारोऽवधारणार्थः, स च चकारसूचितविशेषणपदेन संबध्यते, ततोऽयमर्थः - यथा|ऽवस्थितस्वरूपाण्येव देवादीनि सम्यक्त्वं न विपरीतरूपाणीति, ननु चैतद्विषयो यो रुचिपरिणामः स सम्यक्त्वमुच्यते, | कथमेतान्येव सम्यक्त्वमित्युक्तं ?, सत्यं, विषयविषयवतोरभेदोपचारवृत्त्या देवादिविषयो रुचिपरिणामो देवादिशब्दै - For Private & Personal Use Only याहगादीनि नवपदानि गा. २ मिथ्यात्व स्वरूपं गा. ३ ॥ ४ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy