________________
Jain Education Inter
पदार्थपरिज्ञानं, " सम्यक् तत्त्वपरिज्ञानाद्धेयोपादेयवेदिनः । उपादेयमुपादाय गच्छन्ति परमां गतिम् ॥ १ ॥” इति वचनात्परम्परया मुक्तिः, प्रयोजनप्रकरणयोः सम्बन्धश्व साध्यसाधनलक्षण इत्यादि सबै सामर्थ्यादुक्तमवसेयम् । | ननु सम्यक्त्वादीनां निःश्रेयसहेतुत्वाद् युक्तं वचनं, मिध्यात्वं तु निःश्रेयसपरिपन्थित्वात्किमर्थमुच्यते ?, सत्यं, हानार्थं, न खलु हेयहानमन्तरेणोपादेयमुपादातुं शक्यं, हेयं च मिथ्यात्वं सकलगुणविघातित्वात्, न च हेय मप्यज्ञातं हीयते, इतो नवभिः प्रकारैः सम्यग् ज्ञात्वा सर्वथेदं हेयम्, अस्यार्थस्य ज्ञापनाय कतिपयगुणविघात्त्यन्यहन्तव्योपलक्षणाय चेदमुदितम्, अथवा भेदद्वारे मिध्यात्वमनेकधा वक्ष्यते, तत्राभिनिवेशरहितमिदं सम्यक्त्वहेतुरेव अतो यथा विरतिहेतुः सम्यक्त्वं वाच्यं तथा तद्धेतुर्मिथ्यात्वमपीति सम्यक्त्वादिवन्मिथ्यात्वमपि उपादेयमेवेत्यदोष इत्यलं प्रसङ्गेनेति गाथार्थः ॥ साम्प्रतं 'नवभेयाइं वोच्छ ' मिति प्रतिज्ञासूत्रप्रतिपादिताः के ते नव भेदाः ? इत्याशङ्कापनोदार्थ नव भेदानाहजारिसओ १ जइभेओ २ जह जायइ ३ जह व एत्थ दोस ४ गुणा ५ ।
जयणा ६ जह अइयारा ७ भंगो ८ तह भावणा ९ णेया ॥ २ ॥
'यादृशः' यत्स्वरूपो मिथ्यात्वादिर्गुण इत्येको भेदः, 'यद्भेदः' ये भेदा यस्यासौ यद्भेदो - यावद्भेद इति द्वितीयो
For Private & Personal Use Only
jainelibrary.org