________________
नवपद- वृत्तिम्मू.देव.
वृ.यशो.
.
.
संखंतरा हुंति ॥ १॥" ति, प्राप्तसम्यक्त्वदेशविरतिश्च मरणान्तसंलेखनामाराधयत्यतो युक्त एवैवमुपन्यासः, मंगलामिधे
यादिनिर्देश मिथ्यात्वादीनि वक्ष्य' इत्येतावता च ग्रन्थान्तरोदितार्थानुवादकतया मा भूदनारम्भणयत्वमस्येत्यभिप्रायवानाह-'नवभेदानी ति, अयमर्थः-यद्यपि श्रावकप्रज्ञप्त्यादिप्रकरणेष्वपि मिथ्यात्वादयः पञ्चदश पदार्थाः कयाऽपि भङ्ग्या प्रतिपादितास्तथाऽपि नवनवहारनिरूपणेन न तत्राभिहिता इति विशेषाभिधानायेदमारभ्यते, एतेन च पादयेन साक्षात्सप्रपञ्चमभिधेयमुक्तं, सम्बन्धस्तु सामर्थ्येन, तथाहि-मिथ्यात्वादीनि नवभेदानि वक्ष्य इति वदता मिथ्यात्वादयोऽस्याभिधेया । इति दर्शितं, प्रकरणाभिधेययोश्चाभिधानाभिधेयसम्बन्धोऽर्थादुक्त इति । श्राद्धानामनुग्रहार्थमिति श्रद्धा विद्यते येषां ते । श्राद्धाः-श्रावकास्तेषां श्राद्धानामिति, अनुग्रह-उपकारस्तदर्थमनुग्रहार्थ, कथं चासौ तेषां कृतो भवति?, यदा शारीरमानसाघनेकक्लेशावासोषितानां चतुर्गतिनिबन्धनानन्तजननमरणपरिवर्तननिविण्णानां सकलसन्तापापनोददक्षं निरतिशयसुखस्वभावायापवर्गनगरमार्गप्रदर्शकं जिनवचनमुपदिश्यते, तथा चोक्तम्-"नणामनन्तमृतिजन्मजरातुराणां, निःशेदोषविगमाय समुद्यतानाम् । नान्यो यतेस्त्रिभुवनेऽपि जिनोक्तधर्मशास्त्रोपदेशनसमः परमोपकारः ॥ १॥” इति, अनेन च गाथाचरमपादेन कर्तुरनन्तरं प्रयोजनमुक्तं, परम्पराप्रयोजनं तु मुक्तिलक्षणं, श्रोतुश्चानन्तरं मिथ्यात्वादि
Jain Education int
For Private Personal use only
"www.jainelibrary.org