SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ । प्रत्येकं 'नवभेदानि नवद्वाराणि 'वक्ष्ये' अभिधास्ये, भेदाश्च नव उत्तरगाथायामभिधास्यन्ते, एषां च मिथ्यात्वादीनामनेनैव क्रमेण भावात्प्रकरणकारेणैवमुपन्यासो विहितः, तथाहि-सर्व एवायं जीवो नारकतिर्यङ्नरामरगतिविविधविभीषिकारौद्रे शब्दादिपञ्चविधविषयसुखलम्पटप्राणिगणोपदार्शतनान विधाधिव्याधिजीवमधुमक्षिकाकीर्णतुच्छतमकामसौख्यक्षौद्रे जन्ममरणप्रमुखदुःखश्वापदबिभीषणे संसारारण्ये पूर्वमसुन्दराचरणकारणेन मिथ्यात्वकुटिलसहचरेणैव भ्रा-1 म्यते, न च तदा कश्चिदेवं जानाति-यदुतैष एव ममैवंविधभीषणस्थाननिवासजनितानन्तदुःखसम्पातहेतुः, केवलं तमेव IN बहु मन्यते, पश्चाच्च कस्यचिज्जीवस्यानाभोगनिर्वतितगिरिसरिदुपलघोलनाकल्पयथाप्रवृत्तकरणमित्रकाथिततदोषस्यैव ।। ताहिभृतिमिवात्कृष्टस्थिति सप्ततिसागरोपमकोटीकोटीलक्षणामपहृतवतोऽतिचिरपरिचितोऽयं मे समस्तापहारेण माऽत्यन्तविलक्षो भूदितीव संचिन्त्य तस्य किञ्चिद्रविणशेषायमाणामेकां सागरोपमकोटीकोटी किञ्चिदूनां तथैव धृतवतो । निवृत्तिनगरीनिवासार्थिनस्तन्मार्गनिवेदकाप्तपुरुषयोगमभिलषतः प्राप्तावसरसमागतापूर्वकरणानिवृत्तिकरणसन्नरोपदर्शितोऽक्षेपतत्प्रापकः सम्यक्त्वसन्मार्गलाभो जायते, तदनन्तरं च पल्योपमपृथक्त्वमात्रे कालेऽतिक्रान्ते स्थूलप्राणातिपातादिदेशविरतिः संपद्यते, तथा चागमः-"संमत्तमि उ लद्धे पलियपुहुत्तेण सावओ होइ । चरणोवसमखयाणं साग-ld Jan Education Inter For Private Personel Use Only w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy