________________
नवपदवृत्तिम्मू-देववृ. यशो.
॥ २ ॥
Jain Education
न्तर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनात् ॥ १ ॥” अतोऽभिधेयादिप्रतिपादनमपि शास्त्रादौ श्रोतृप्रवृत्त्यङ्गत्वादविरुद्धमेवेति । | अस्याश्चाद्यपादेनेष्टदेवतानमस्कारः शेषपादत्रयेणाभिधेयप्रयोजने साक्षात् सम्बन्धस्त्वर्थादुक्त इति समुदायार्थो, व्यासार्थ. |स्तूच्यते-'नमिऊण' नत्वा प्रणम्येत्यर्थः 'वद्धमाणं ति वर्द्धतेऽचिन्त्यमाहात्म्यैः सम्यग्दर्शनज्ञानचारित्रादिभिर्गुणैः स्वयमेव | अस्य वा जन्मनि ज्ञातकुलं कोश कोष्ठागारादिसम्पद्विशेषैर्वर्द्धत इति तद्वृद्धिहेतुत्वाद्वर्द्धमानः, इष्टदेवता चायं गुणप्रकर्षरूपत्वात्परमगत्यवाप्तेरिति, तं नत्वा किं ? "वोच्छ' मिति वक्ष्यमाणक्रियाऽभिसम्बन्धः, एतावता चेष्टदेवतास्तवे प्रतिपादिते। | प्रेक्षापूर्वकारिणः श्रोतारो निरभिधेयमिदमनभिमताभिधेयं वा तथा निष्प्रयोजनमनभिमतप्रयोजनं वेति मन्यमाना न प्रकरणश्रवणे प्रवर्त्तेरन् अतो- "मिच्छं सम्मं वयाई संलेहा नवभेयाई” इत्याभिधेयं 'सड्डाणमणुग्गहट्ठाए' इति प्रयोजनं चोक्तं, तत्र पर्यन्तोपात्तं 'नवभेदानि' इति पदं सर्वपदैरभिसंबध्यते, तेन मिथ्यात्वम् - अर्हत्प्रणीततत्त्वार्थाश्रद्धानहेतुर्न वभेदं, सम्यक्त्वम्-अष्टादशदोषविहितशेषोऽर्हन् मे देवता अष्टादशसहस्रशीलाङ्गघारकाः साधवो गुरवो जिनोद्दिष्टा जीवादय एवतत्त्वानीतिश्रद्धानहेतुरात्मपरिणामः तच्च नवभेदं व्रतानीति - पञ्चाणुत्रतानि त्रीणि गुणत्रतानि चत्वारि शिक्षाव्रतानि विरतिरूपाणि प्रत्येकं नवभेदानि, संलेखनां - मारणान्तिकीं शरीरकषायादीनां झोषणां नवप्रकारां, सर्वाण्येतानि मिथ्यात्वादीनि
For Private & Personal Use Only
मंगलाभिषेत्यादि निर्देशः
गा. १
॥ २ ॥
(Ahwww.jainelibrary.org