________________
स्तवपूर्वकम् ॥ १॥” इति, तथा च शिष्टसमाचारपरिपालनमस्य प्रयोजनमतोऽनर्थकत्वादित्यसिद्धो हेतुः, अप्रस्तुत-- त्वादित्यायसिद्धं, श्रेयोभूतस्य शास्त्रस्य संभाव्यमानविघ्नोपशान्तिहेतुतया नमस्कारस्य प्रस्तुतत्वात, तथा चोक्तम्-"बहु-10 विग्घाई सेयाइं तेण कयमंगलोवयारेहिं । सत्थे पयट्टियव्वं विज्जाएँ महानिहीएव्व ॥ १॥” अभिधेयादीनां चानवगतसकलशास्त्रस्याप्येतहणने निरस्तनिरभिधेयत्वाद्याशङ्कास्य प्रवृत्त्यङ्गत्वाद्युक्तमादावुपादानं, तथा चोक्तम्-"प्रेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ, वाच्यभिष्टार्थसिद्धये ॥१॥' येऽपि शास्त्रे श्रोतृजनप्रवृत्त्यङ्गतया ।। प्रयोजनं मुख्यमिच्छन्ति "अनिर्दिष्टफलं सर्व, न प्रेक्षापूर्वकारिभिः । शास्त्रमाद्रियते तेन, वाच्यमग्रे प्रयोजनम्॥१॥सर्वस्यैव । हि शास्त्रस्य, कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं, तावत्तत्केन गृह्यताम् ? ॥२॥” इत्युक्तिप्रामाण्यात् तेऽप्यभिधेयादित्रयमेव परमार्थतःप्रवृत्तिकारणमङ्गीकृतवन्तः, तथाहि-शास्त्रमनिर्दिष्टप्रयोजनं प्रेक्षावद्भिर्नाद्रियत इति ब्रवाणैरभिधेयमपि प्रयोजनाक्षिप्तत्वात् प्रवृत्त्यङ्गतयोपात्तमेव नहि निरभिधेयस्य प्रयोजनं वक्तं शक्यं यदुक्तम्-"न चाप्यविषयस्येह, शक्यं वक्तुं प्रयोजनम् । काकदन्तपरीक्षादेस्तत्प्रयोगाप्रसिद्धितः॥१॥” इति, सम्बन्धस्त्वभिधेयप्रयोजनान्तर्गत एवेति पृथगनुक्तोऽपि सामर्थ्यागम्यते, यदुक्तम्-"शास्त्रं प्रयोजनं चेति, सम्बन्धस्याश्रयावुभौ । तदुक्त्य
मा
For Private Personal Use Only
Jain Education in
w.jainelibrary.org