________________
नवपद
वृत्तिन्मू. देव. वृ. यशो.
॥ १ ॥
Jain Education In
यस्याः प्रसादयानेन, लीलया ज्ञेयसागरम् । तरन्ति विबुधाः सा मे, सन्निधत्तां सरस्वती ॥ ३ ॥ मम बुद्धिकुमुदिनीयं यत्सङ्गमशशधरोदये सद्यः । अलभत विकासमसमं तान् भक्त्या निजगुरून्नौमि ॥ ४ ॥ श्रीदेवगुप्तसूरिर्विरचितवान् नवपदप्रकरणं यत् । विवृतिं तस्य विधित्सुर्विज्ञपये सज्जनानेवम् ॥ ५ ॥ वृत्तिर्यद्यपि विद्यतेऽत्र विहिता तैरेव पूज्यैः स्वयं, सङ्क्षेपेण तथापि सा न सुगमा गम्भीरशब्दा यतः । विस्पष्टार्थपदप्रबन्धरुचिरा तेनेयमारभ्यते, किञ्चिद्विस्तरशालिनी तनुधियामिच्छानुवृत्त्या मया ॥ ६ ॥ यच्चासमञ्जसं किञ्चिज्जायतेऽत्र प्रमादतः । पुत्रापराधवत्सर्वे, तद्बुधैर्मम सह्यताम् ॥ ७ ॥
इह चादावेव प्रकरणकारोऽभीष्टदेवतास्तवमभिधेयादित्रयं च प्रतिपादयितुकामो गाथामाहनमिऊण वज्रमाणं मिच्छं सम्मं वयाई संलेहा । नवभेयाइं वोच्छं सङ्घाणमणुग्गहठ्ठाए ॥ १ ॥
न चैतद्वक्तव्यम्-अभीष्टदेवतानमस्कारस्यानर्थकत्वादप्रस्तुतत्वाच्च अभिधेयादीनां चानधिगतशास्त्रस्य प्रत्याययितुमशक्यत्वादयुक्तमादावेव तत्प्रतिपादनमिति, यतः शिष्टानामयमेव समयो यदुत तैरभीष्टे वस्तुनि प्रवर्त्तमा| नैरवश्यमिष्टदेवतास्तवपूर्वकं प्रवर्त्तितव्यं, यथोक्तम्- “ शिष्टानामेष समयस्ते सर्वत्र शुभे किल । प्रवर्त्तन्ते सदेवेष्टदेवता
For Private & Personal Use Only
मंगलामिषे व्यादि निर्देश
गा. १
॥ १॥
www.jainelibrary.org