SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ काम् ॥ ७ ॥ क्रीडन्तस्तत्र ते दृष्ट्वा, स्त्रीपुंसपदपद्धतिम् । सकलत्रो युवा कश्चिदास्तेऽमुत्रेत्यचिन्तयत् ॥ ८ ॥ ततस्तदनुसारेण, यावत्किञ्चिदिमे गताः । तावद्धेमन्तधामेव, शैत्येन कदलीगृहम् ॥ ९ ॥ अपश्यंस्तत्प्रविष्टाश्च, पुष्पशय्या मनोरमाम । सकोशं खड्गरत्नं च, तददूरे द्रुमेण च ॥ १०॥ समं लोहमयैः कीलैः, कीलितं ददृशुर्नरम् । सर्वाङ्ग-II सुन्दरं नव्ये, वर्तमानं वयोगुणे ॥११॥चारुदत्तोऽथ तानाह, तं विलोक्य तथास्थितम् । भो वयस्याः सजीवोऽयमद्यापि किल लक्ष्यते ॥१२॥ तदेष मोचनीयः स्यात, केनोपायेन ? कथ्यताम्। ऊचुस्ते देशकालज्ञः, त्वमेव यदि वेत्सि तम् ॥१३॥ पश्यन्नितस्ततोऽसावप्यौषधीवलयत्रयम्। नामाङ्क खड्गरत्नस्य, तस्य कोशे व्यलोकत॥१४॥ गृहीत्वा निजबुद्ध्यैव, तेषामे-10 केन मोचितः। अपरेण च संरूढवणोऽसौ तत्क्षणात्कृतः॥१५॥संजीवनीयनाम्ना च, तृतीयवलयेन सः। नष्टनिःशेषसञ्ज्ञोऽपि, d प्रत्यानीतोऽथ चेतनाम् ॥१६॥ततोनिमेषमात्रेण, वक्तुं तेनोपचक्रमे। ममोपकारिणो यूयं, भोः! तच्छृणुत मे कथाम् ॥१७॥ वैताढ्यदक्षिणश्रेण्यां, नगरं शिवमन्दिरम् । महेन्द्रविक्रमो राजा, तत्र विद्याधराधिपः ॥ १८ ॥ तस्यामितगतिः । पुत्रो, जातोऽहं मे वयस्यको । बभूवतुः प्रियो गौरिमुण्डधूमशिखाभिधौ ॥ १९ ॥ कदाचित्सहितस्ताभ्यां, हीमन्तं नगमागतः । हिरण्यरोमनामा च. मातुलो मम तापसः॥ २०॥ तत्रास्ते तस्य पुत्री च नवोपारूढयौवना । Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy