________________
RAPATI
। कथा.
.१७४॥
श्रीनवपदः ||| अहो ! रोषप्रकृष्टत्वमहो ! ईर्ष्याऽतिदारुणा ॥ ७ ॥ अथवा भद्रिकैवेषा, या मृत्युसमयेऽपि मे । स्वकर्म कथयामा- श्रीप्रभा ह. चतुर्थेs णुव्रते.
सानुतापगतमानसा ॥८॥ अत्रान्तरे समायातः, सिद्धादेशो निमित्तवित् । तेन नीरोगताऽमुष्या,आदिष्टा स्वल्पकालिकी ॥९॥ एतच्च नैमित्तिकवचनमाकर्ण्य तत्पार्श्ववती वैद्यस्तदीयमातरमादिष्टवान्--यथा बलात्तैलमादायाभ्यज्यतां जडैकदेशोऽस्याः, आमवातज्वरोऽयं, तया च तथैव विहिते वैद्यवचसि सद्य एव संपन्नो मनाक् तत्र स्थाने गुणः, ततोऽवबुद्धतद्रोगेण वैद्येनोपचर्य विविधोपचारैः स्वल्पदिनैरेव नीरोगीकृतायां श्रीप्रभावामुचितपूजया विधिवत्सन्मान्य नैमित्तिकथैद्यौ विमलो राजकुलादभियाच्य दिनहयेन पञ्चाशद्योजनगामिनी चरिकामारुह्य स्वयं गतः श्वशुरगृहं, दृष्टा च तत्र विचित्रतपश्चरणशोषितशरीरा धनश्री, लज्जाभरमन्थरः स्ववदनं दर्शयितुमशक्नुवन्नभिवाद्य । श्वशुरै भणितवांश्च-क्षमणीयो ममैकोऽयमपराधः, पुनर्न करिष्याम्यहमेवं, मुच्यतां चेयं धनश्रीयेन गृहीत्वैनां व्रजामि स्वभवन, किञ्चिदुपालम्भसारमाभापित एष तेन-भो भो जामातृक ! न युक्तमेवमपर्यालोचितकारित्वं भवतो, यतः-"माdi
होह सुबगाही, मा पत्तिय जं न दिट्ठपञ्चक्खं । पञ्चक्खेऽविहु दिढे जुत्ताजुत्तं वियारेह ॥ ॥" किञ्च सुशीलताके दिगुणकलापमालोक्यास्या लोकोऽप्येवमुदाहरति--कुदृष्टं कुपरिज्ञातं, कुश्रुतं कुपरीक्षितम् । पुरुषेण न कर्त्तव्यं
॥१७४॥
For Private Personal use only
in Education Inter
ainelibrary.org