________________
सुवर्णादि यद्यनावृत्तमेवात्मपाचे धारयिष्यावस्तदा चौरादिः प्रतिग्रहीष्यति, तस्मादिदं निधानीकृत्य कचित्प्रदेशेऽन्यत्र । तिष्ठावः, ततः प्रतिपन्ने देवशर्मणा तथैव तन्निधानीकृत्य यावच्चलितावन्योऽन्यवधविहिताभिप्रायावन्यप्रदेशाभिमुखौ । तावत्तत्रान्तरे दृष्ट एको जीर्णकूपो देवेन, भणितश्च देवशर्मा-वत्से ! निरीक्ष्यतामेष कूपः कियदत्रोदकं ?, ततोऽसौ यावन्निरीक्षितुमारेभे तावत्प्रणुन्नः क्रूपमध्ये, तेन च पतता गृहीतः सोऽपि शरीरदेशे, निरालम्बनतया । पतितौ द्वावपि, मृत्वा जातौ सर्पत्वेन, क्रमेण च परिभ्रमन्तौ समागतौ निधानप्रदेशं, तत्प्रदेशोत्पन्नमच्छौ चारब्धौ।। योद्धमुपारूढप्रबलकोपौ च परस्परं युध्यमानावेव प्राप्तौ निधनमुपपन्नौ मूषकत्वेन, तथैव तत्प्रदेशागमनोपारूढ. गाढमूर्छावन्योऽन्यभक्षितसमस्तशरीरदेशौ महावेदनाभिभतौ मृत्वा समुत्पन्नौ कमलत्वेन, तथैव च कालान्तरेण तत्प्रदे.. शमागतौ यूथसहितौ परस्परमारब्धौ योद्धं, तीव्रकोपतया कथञ्चिन्नोपरमेते यावत्तावत्समायातस्तत्र धनुर्दण्डमारोप्याकर्णा. न्ताकृष्टशरो व्याधः तं दृष्ट्वा पलायितं दिशोदिशमशेषयूथं, तौ च तीव्रयुद्धाभिनिवेशविवशावलक्षिततदागमनौ हतावेकशरनिपातेन तेन, मरणसमयसमुपजातमनुष्यभवनिर्वर्तनायोग्यतथाविधाध्यवसायमाहात्म्येन चोत्पन्नौ तस्यामेव कौशाम्ब्यां माधवाभिधानब्राह्मणस्य वसन्तिनीभार्यायां यमलपुत्रौ, कृतमुचितसमये तयो मैकस्य रुद्रोऽपरस्य महेश्वरः
Jain Education in
For Private & Personel Use Only
Fallww.jainelibrary.org