SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ तुष्पदं-गवाश्वादीति, 'अपिः । समुच्चये, चः स्वगतानेकभेदसूचकोऽवगन्तव्य इति गाथार्थः ॥ ५८ ॥ उक्तं भेदद्वारमस्याधुना यथा जायत इदं तथोच्यते अत्थं अणथविसयं संतोसविवज्जियं कुगइमूलं । नाउं तपरिमाणं कुणंति संसारभयभीया ॥ ५९ ॥ अर्थ ' वित्तं ज्ञात्या, विदित्वेति सम्बन्धः कीदृशम् ?-'अनर्थविषयं व्यसनगोचरं, किंविशिष्टं पुनः ? इत्याह-सन्तोषः-उत्तरोत्तराभिलाषनिवृत्तिः सन्तुष्टतेतियावत् तेन विशेषेण वर्जितं-रहितं सन्तोषविव-|| र्जितं, भूयः कथम्भूतं ?-कुत्सिता गतयः कुगतयो-नारकतिर्यगाद्यास्तासां मूलं-कारणं कुगतिमूलं, एवविधमर्थमवगम्य किमित्याह--कुर्वन्ति-विधति, के ? इत्याह-संसारभयभीता' भवत्रासत्रस्ताः, किं कुर्वन्तीत्याह-तस्य. अर्थस्य परिमितिः-परिमाणं तत्परिमाणं-तदियत्तामतो नवधा परिग्रहपरिमाणमित्थं जायत इति सूचितमिति गाथाक्षरार्थः ॥ अत्र च संसारभयभीताः संतोषविवर्जितमर्थं कुगतिमूलमनर्थविषयं च ज्ञात्वा तत्परिमाणं कुर्वन्तीयुक्तम्, कथं चैषोऽनर्थविषयः कुगतिमूलं चेत्येतदृष्टान्तद्वारेणाभिधीयते JainEducatioril For Private Personel Use Only www.jainelorary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy