________________
कथमिति चेद्रमः परदारवीं स एव भण्यते यः परदारा मया न भोक्तव्या इति नियमयति, तस्य चेत्वरकालपरप रिगृहीतवेश्यायां गमनमाचरतः कथञ्चित्तस्याः परदारत्वात्स्वबहथा च तेन वेश्येयमिति पर्यालोचनाद् भामरूपत्वेनेत्वरं-स्तोककालं परिगहीता-स्वीकता भाटीप्रदानेन नियतकालं सा तथा, वेश्येत्यर्थः, तस्यां गमनमतिचारः तथा अपरिगृहीता-अनाथकुलाङ्गन्ना तस्यां गमनं यत्तदपि तस्या लोके परदारत्वेन रूढत्वात्कामुकाभिप्रायेण च भाद्यभावेनापरदारत्वाङ्गाभङ्गरूपतया तस्यातिचारः २ स्वदारसन्तुष्टस्य तु स्वकलत्रं मुक्त्वाऽन्यस्य वर्जितत्वादेतस्मिन् द्वयेऽपि भङ्ग एवेति भाव्यम्, अग्रेतनास्त त्रयो द्वयोरपि तुल्या एव, तथाहि-अनङ्गक्रीडा तावन्निष्पन्नप्रयोजनस्याहायैश्चर्मादिघटितप्रजननयोषितामवाच्यदेशासेवनं कुचकक्षोरुवदनादिषु रमणं वाऽभिधीयते, सा च यद्यपि ।
स्वदारसन्तुष्टेन स्वकलत्रे परदारवर्जिना तु वेश्यास्वकलत्रयोः परकलत्र इव न प्रतिषिद्धा तथाऽपि ताभ्यामत्यन्तपा-Ng तापभीरुतया ब्रह्मचर्यमादातकामाभ्यामपि वेदोदयासहिष्णतया यापनामात्रार्थ स्वदारसन्तोषपरदारवर्जने प्रतिपन्ने
तन्मैथुनमात्रेणैव च यापनायाः संभवादर्थतोऽनंगक्रीडाऽपि परिहृतैव ३, एवं परेषां-स्खापत्यव्यतिरिक्तजनानां स्नेह-18 सम्बन्धादिना परिणयनविधानं परविवाहकरणम् ४ तथा काम्येते-अभिलष्येते यौ तौ काम-शब्दरूपलक्षणौ भुज्यन्त
Jain Education in
For Private & Personel Use Only
I
ww.jainelibrary.org