________________
छन्नं- अप्रकटं तच्च तदङ्गं च - शरीरावयवस्तस्य दर्शनम् - अवलोकनं छन्नाङ्गदर्शनं तस्मिन् तथा स्पर्शनंछुप्तिश्छन्नाङ्गस्यैव तस्मिन्, 'च' समुच्चये, तथा गवां मूत्रं गोमूत्रं - सुरभिप्रश्रवणं तस्य ग्रहणम उपादानं तच्च कुत्सितः स्वमः कुस्त्रमश्च दुःस्वप्नस्तत्तथा तस्मिन् समाहारत्वादेकवचने, गोमत्रग्रहणे कुस्त्रमे, एतस्मिंश्चतुष्टयेऽपि | किमित्याह - ' जयणा सव्वत्थ करे गत्ते ' यतनां गुरुलाघवालोचनप्रवृत्तिरूपां 'सर्वत्र सर्वस्मिन् 'कुर्यात् ' | विदध्यात् एतदुक्तं भवति - पुरुषेण गृहीतचतुर्थाणुव्रतेन स्त्रीणां स्त्रीभिव पुरुषाणामङ्गोपाङ्गानि नोपेत्यकरणेन द्रष्टव्यानि स्पृष्टव्यानि वा दृष्टस्पृष्टेषु च कथञ्चिन्न तेषु रागबुद्धिः कार्या यच्च गोमूत्रग्रहणं तदपि गोयोनिमर्दनेन न कर्त्तव्यमेव, किन्तु यदा स्वभावेनैव मूत्रयति गौस्तदा तद्ब्राह्यं, आत्यन्तिककार्ये तु गोयोनिमर्दनेऽपि तत्कोमलस्पर्शसुखाभिषङ्गो न विधेयः, कुस्वने तु स्त्रीसेवादिलक्षणे एवं यतना - प्रथममेव धर्मध्यानपरेण पञ्चनमस्कारमङ्गलपाठपूर्व 'आदावत्यभ्युदया मध्ये शृंगारहास्यदीप्तरसाः । निकषे विषया बैभत्स्य करुणलज्जाभयप्रायाः ॥ १ ॥ यद्यपि निषेव्यमाना मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥ २ ॥ इत्यादिभावनाजनितवैराग्येण जन्तुना स्वप्तव्यं येन तथाविध कुस्वप्रलाभ एव न भवति, अथ कथञ्चिन्निद्रापारवश्ये मोहोद्रेका.
Jain Education International
For Private & Personal Use Only
jainelibrary.org