________________
षणकेवलिसीप, दीक्षिता च विधिना रजोहरणादिवेषसमर्पणापुरस्सरं सा तेन, ततस्तमर्थमवगम्य रामदेवः शोकापूर्णहृदयोऽनेकविधासमञ्जसप्रलापान् कुर्वाणस्तत्रैवानीतो लक्ष्मणेन, ददर्श व्रतिनी सीताम् , अभिवन्द्य केवलिनं वन्दिता भावसारं समं लक्ष्मणादिभिः, कृतांच केवलिना धर्मदेशनामाकर्ण्य प्रतनुशोकाः सवृत्ता राघवादयः, पुनरभिवन्द्य गताः। स्वस्थानं, निष्कलङ्कश्रामण्यमनुशील्य शीताऽनशनविधिना मृत्वा जाताऽच्युतेन्द्रत्वेन । अन्यभवे तु सीता मृणालकुन्दाभि धाननगरवास्तव्यपुरोहितपुत्रस्य श्रीभूतिनाम्नः सरस्वतीभार्यायाः पुत्रिका वेगवती नामिका बभूव,तया च कदाचिद्यौवननदमत्तया बहिः कायोत्सर्गव्यवस्थितं साधं सुदर्शनाभिधानं लोकेन वन्द्यमानमालोक्यालीकमेव लोकस्याग्रे भणितं|भो भो लाकाः ! अयमत्र मया महेलया सह दृष्टस्तत्किमेनमेवं वन्दध्वं ?, ततस्तदाकर्ण्य लोको विपरिणतस्तं साधु निन्दितुमारेभे, तपस्वी तु तच्छ्रुत्वा मनसैवाभिग्रहं जग्राह-यावन्ममैष कलङ्को नापगतस्तावन्न मया पारणीयः कायोत्सर्गः, अत्रान्तरे च यथासन्निहितदेवतया मुनिपक्षपातेन वेगवत्या उच्छूनीकृतं वदनं, पित्रा च श्रीभूतिना विज्ञातसाधुव्यतिकरण संतर्जिता परुषवचनैर्ग्रहं गता गवती, ततोऽसौ समागत्य साधुसमी गाढ जातानुतापा बभाषे सकललोकप्रत्यक्षं-भगवन् ! निर्दोषस्त्वं, केवलं मया दुस्तुण्डया तवालीकमेवाऽऽलप्रदानं कृतं, तत्क्षमगीयो ममा
Jain Education Inter
For Private & Personel Use Only
Slu.jainelibrary.org