SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ धाय चलिता विकसितकमलवदना ज्वलनाभिमुखं तुष्टमानसा, ततः समस्तोऽपि लोको हाहारवपुरस्सरं भणितुं प्रवृत्तः भो भो ! न सुन्दरमिदं रामदेवेन कर्तुमारब्धम्, अतिनिर्घृणं कर्म समादिष्ट सीतायाः, न खल्वस्या मनागपि शीलखण्डनां संभावयामो, मुखराग एव प्रकटयति प्राणिनां मलिनशीलतां न चास्याः किमपि कुशलितालक्षणमालोक्यते, अत्रान्तरे भणितं सिद्धार्थेन - रामदेव !-यदि मेरुः पातालं प्रविशति शुष्यति च लवणजलराशिः । तदपि न शीलभ्रंशः संभाव्यो जनकतनयायाः ॥ १ ॥ किंवा प्रविष्टयैव हुताशने शोधित एवात्माऽनया, प्राप्त लोकमध्ये साधुवादः, निवार्यतामिदानीं, रामेणोक्तं - सिद्धार्थ ! दुर्जनप्रकृतिरेष लोकः, क्षणेन विसंवदति क्षणेन सवदति, तद्यावन्न हुतभुजि निर्वटितोऽस्याः शीलकनकगुणस्तावन्न निवर्त्तयामि, सीताऽपि गत्वा ज्वलनान्तिकं बभाणार्हत्सिद्धादिनमस्कारपूर्व-भो भो लोकपालाः ! -रामं मुक्त्वाऽन्यनरो मनसाऽपि हि यदि मया | समभिलषितः । तद्दहताद्दहनो मां हिमकणशीतोऽन्यथा भवतु ॥ १ ॥ इत्यभिधाय यावत्तत्र दत्तवती झम्यां तावदत्रान्तरे | जगद्भूषणमुनेः केवलोत्पत्तौ महिमां कर्तुमागतेन शक्रेणादिष्टो हरिणकवेषः - कुरु महासत्याः सीतायाः सान्निध्यं, ततोऽसौ विमलजलापूर्ण कमल कुमुद कुवलय कहार शतपत्रसहस्रपत्रेोपशोभितां वापीं विधायैकस्मिन् सहस्रपत्रपझे समुपावेशयत् सीतां, मुमुचुः सुरसिद्धगान्धर्वादयो गगनगतास्तदुपरि कुसुमवृष्टिं जुषुषुश्च - अहो ! महा Jain Education Intal For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy