________________
समरसंरम्भमवलोक्य भामण्डलेन पुण्डरीकपुगन्नानीता कुमारशिबिरवर्तिनी तिष्ठति, तस्मात्सर्वमिदं शीघ्रमात्मक यतामिति, ततो रामदेव एवमुक्तो भूत्वा लक्ष्मणस्य निकटवर्ती निवेद्य च तस्य तं वृत्तान्तं समं तेनैव समकालं स्वीकृत आनन्दखेदाभ्यां बाष्पजलक्षालितकपोतलः सु समपिमागन्तुं प्रवृत्तः, तौ त्वागच्छन्तौ पितृपितृव्यावालोक्य परित्यक्तरथौ । स्नेहनिर्भरं झगित्यागत्य पतितौ तत्पादयोः, रामदेवस्तु गाढमाश्लिष्य तनुजौ रुदित्या क्षणं विलपितुमारेभे-हा पुत्र ।। अकार्यमाचरितं मया यद्गर्भगताभ्यां युवाभ्यां सह त्यक्ता त्वन्माता, हा प्रिये ! कथं जीविताऽसि तदा क्षुद्रसत्त्वसङ्कले मुक्ताऽरण्ये ? ततो लक्ष्मण उवाच-भ्रातः किमेवं शोच्यते ?. न श्रुतं किं त्वया ?-रणे वने शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा. रक्षन्ति पुण्यानि पुराकृतानि ॥॥ तन्मुक्त्वा शोकं समागम्यतामितः प्रविश्यतां सम कुमारलोकेन निजनगर्या, एतच्चावगम्य सीता प्रवरविमानारूढा गता पुण्डरीकपुरं रामस्तु लक्ष्मणवचनमुपश्रुत्य वज्रजङ्घ करे गृहीत्वा त्वमेव मे परमबान्धवो यद्गृहे वैदेही स्थिता वृद्धि गतौ चैतौ मत्पुत्रावित्यभिदः । धत कुमारौ च वामदक्षिणपार्श्वयोरात्मनः कृत्वा समं लक्ष्मणप्रमुखसमस्तराजलोकेन महाविभूत्या पुष्पकविमानारूढः प्रविवेश नगरीम् । अत्रान्तरे विज्ञप्तं बिभीषणादिभिः-स्वामिन् ! आनास्यतां जनकपुत्री, दुःखमास्ते खलु सा
nin Education Inter
For Private & Personel Use Only
N
ITrjainelibrary.org