SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ १६१ ॥ निर्विचारा न शोभते सतां प्रवृत्तिरित्यभिधाय पुनस्तं गृहीत्वा करे न्यवीविशदासने, भणितवांश्च - प्राणप्रियामपीमांः वैदेहीं नात्र धर्तुमिच्छामि । इत्थं जनसंभावितशीलकलङ्कामिह भ्रातः ! ॥ १ ॥ लक्ष्मीधर उवाच - लोकः कुटिलप्रकृति, पिशुनो गुणमत्सरी भषणशीलः । एतदपवादमात्रान्मा मुञ्च महासतीं सीताम् ॥ २॥ रामो बभाण सत्यं यत्त्वं ब्रूषे परं | महानेषः । अयशःकलङ्कपङ्कः सोढुमशक्यो जनविरुद्धः ॥ ३ ॥ ततो निवार्यमाणोऽपि लक्ष्मणादिभिः समाहूय | कृतान्तवदनाभिधसेनाधिपतिमादिदेश रामो - गर्भद्वितीयां सीतां नीत्वा परित्यजारण्ये, अत्रान्तरे लक्ष्मीधरो रामदेवस्योपरि रोषमाधाय समुत्थितस्ततः स्थानात् गतो निजमावासं कृतान्तवदनस्तु यथाऽऽदिशति स्वामी तथा करोमीति प्रतिपाद्य प्रणामपूर्वं रामस्योत्थाय तत्स्थानाद् यानाशालायां रथं प्रगुणीकृत्य पुनः समाजगाम रामसमीपं, रामेणोक्तं- व्रज शीघ्रं, सर्वचैत्यवन्दनाविषयदोहदपूरणव्याजेन नीत्वा सीतामरण्ये मुञ्च, तदादेशानन्तरं कृतप्रणामो गतो जानकीसकाशं भणितवांश्च - देवि ! समारुह्यतां वेगेनायं रथो येन वन्दयामि त्वां रामादेशेन समग्रचैत्यानि, ततोऽसौ तस्य कुटिलस्वभावमजानती परं प्रमोदमुद्दहमाना समारूढा रथं नेतुमारब्धा निवार्यमाणाऽपि दुर्निमित्तशतैस्तावद्यावद्गङ्गासागरं समुत्तार्य प्रापिता महाटवीं, घृतस्तेन तत्र रथः समुत्तार्य मुक्त्वा भूमौ सीतापाद श्रीनवपदवृ ह. चतुर्थेऽ व्रते. Jain Education For Private & Personal Use Only सीताचरित्रं. ॥ १६१ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy