SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ योर्निपत्य शोकभरनिरुद्धगलसरणिविनिर्यद्गद्गदाक्षरेण कथितो यथाऽवस्थितो रामवृत्तान्तः, तमाकर्ण्य सावष्टम्भमाजनसया निवेदितं सीतया-भोः कृतान्तवदन ! महचनात् वाच्यो मत्प्राणनाथो यथा-एकपद एव यद्यपि मुक्तस्नेहो ममोपरि त्वमभः । तदपि परीक्षा स्वामिन् !, शुद्धि कृते किं न मे विहिता ? ॥१॥ भणित्वैवं विसर्जितः सरथो गतोऽसौ निजनगराभिमुखं, सा वेकाकिनी महारण्ये तस्मिन्नालापमात्रसहायमप्यपरमपश्यन्ती पपात क्षणं मूर्छया धरणीतले, शीतलवनवातलब्धचेतना च-हा नाथ ! हा वल्लभ ! हा गुणाढ्य !, हा राम ! निर्व्याजदयानिधान ! स्वामिन् ! प्रयच्छाशु कृपां विधाय, स्वदर्शनं मे भयपीडितायाः ॥ १ ॥ इत्यादि प्रलपन्ती दृष्टा पुण्डरीकपुराग-1 |जबन्धनगतेन राज्ञा वनजङ्केन, सुबहप्रकार कोमलवचनैराश्वास्य पृष्टा कथितनिजवृत्तान्ता साधर्मिकत्वेन भागनीति प्रतिपद्य नीता स्वपुरीम् । इतश्च कृतान्तवदनो महाकष्टेन प्राप्तः साकेतपुरं कथयामास नारायणादिसमेतस्य रामस्य सीताव्यतिकरं, स तु तमाकर्ण्य महता शोकवेगेन स्वीकृतो मुमूर्च्छ क्षणं, लब्धचेतनश्च-हा निघृणेन कथमिह, मया प्रिया पिशुनलोकवचनेन । निष्काश्य निरपराधाऽपि वनचराणां कृता भक्ष्यम् ॥१॥ इत्यादि प्रलपन् भणितो नारायणेन-किमेतेन बालजनोचितेन भ्रातः ! शोकेन ? यद्यस्ति जीवन्ती वैदेही तत्राद्यापि तदा गत्वा समानीयतामत्र. Jain Education For Private Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy