________________
Jain Education Inter
मकथयत्स्वनं तेन चादिष्टं प्रधानपुत्र युगलजन्म, केवलं विमानाद्यत्पतिताऽसि प्रिये ! तन्न सुन्दरमतोऽस्यार्थस्य प्रतिघातार्थं विधीयतां शान्तिकर्मण्यभियोगः, तयोदितं - यथाऽऽदिशति प्राणनाथः इतश्च तत्समय एव बभूवापन्नसत्त्वा सा, रामस्य च सीताया उपरि गाढं प्रेम समालोक्य शेषदेव्यो गुरुमत्सराध्मातान्तःकरणा सीताछिद्रान्वेष णपरायणा एकस्मिन् दिने कस्यांचिगोष्ठयामुपविष्टां सीतां बभणुः यथा कीदृशं रावणस्य रूपमासीत् ?, वैदेह्योक्तं न मया कदाचित्तद्रूपं निरूपितं केवलं यदा मम समीपमागमदसौ तदाऽधोमुखी तच्चरणयुगलमह. मालोकितवती, शेषदेवीभिर्भणितं यद्येवं तदंघ्रियुग्ममेवालिख्योपदर्श्यतां तद्नुसारणेवै शेषतद्रूपमुपलक्षयिष्यामः, ततः सीतया तच्चित्तदुष्टतामजानन्त्या मुग्धतयैवालेखि वरवर्णकानादाय तत्क्रमद्वयं गतायां चतस्या तत्क्षणादेव प्रयोजनागतस्य रामदेवस्य शेषदेवीभिरुपदर्थं सीतालिखितं तत्क्रमयुग्मं भणितं रामसंमुखंदेव ! तव बल्लभायाः सीताया अद्याप्येवं रावणे पक्षपातो येन तच्चरणयुगलमालिख्यैवमाराधयति, रामदेवस्तु गाम्भीर्यान्न किञ्चित्तासामुत्तरमकृत, न च सीतायास्तमभिप्रायं प्रकाशितवान्, अन्यदा च समागते वसन्तसमये क्रीडानिमित्तं महेन्द्रोदयोद्यानमनुप्राप्तो रामदेवः सीतामाललाप प्रिये ! कस्मात्त्वं किञ्चिदलसा विलोक्यसे ?, तयोदितं
For Private & Personal Use Only
w.jainelibrary.org