SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ तेन च बहुरूपिणी विद्या संस्मृत्य कर्तुमारब्धान्यनेकरूपाणि, तेषु च खण्ड्यमानेषु अत्यन्तपीडितेन लक्ष्मणवधाय मुक्तं चक्ररत्नं, तच्च देवतापरिगृहीतं त्रिः प्रदक्षिणीकृत्य लक्ष्मणस्य दक्षिणकरे समारूढं, लक्ष्मणेन चोपारू-|| ढकोपेन क्षिप्त्वा तत्समुखं तदेव चक्रं छिन्नं रावणस्य शिरः, अत्रान्तरे निशाचरानीकं कान्दिशीकं पलायमानमालोक्य सुग्रीवबिभीषणौ संस्थापयामासतनारायणपद्मशरणसमाश्रयणन, रामलक्ष्मणौ च प्रविश्य लङ्कापुरी पुष्पगिरि|शिखरवर्तिपद्मोद्यानस्थितां विलोक्य सीतां परमानन्दनिर्भरौ स्थित्वा तत्र क्षणं गतौ रावणभवनं, तत्र सन्मान्य राक्षसलोकं निवेश्य यथोचितस्थानेषु परिणीयानकराजपुत्रिकाः सीताविशल्याप्रमुखस्वस्वान्तःपुरेण समं विचित्रसु. खान्यनुभवतोस्तयोरतिक्रान्तानि षट् संवत्सराणि । अत्र चान्तरे साकेतपुरवरादपराजितासुमित्राभ्यां चिरकालपुत्रवियोगसंतप्तमानसाभ्यां निजदुःखनिवेदनापूर्व प्रेषितो नारदः समाजगाम तत्र तेन च निवेदिते जननीवृत्तान्ते समं बिभीषणसग्रीवादिभिः पुष्पकविमानाधिरूढौ सीताविशल्याप्रमुखनिजनिजावरोधजनसमन्वितौ प्रचुरविद्याधरसैन्यानुगम्यमानौ रामलक्ष्मणौ समाजग्मतुः साकेतपुरं, तदागमनमवगत्य निर्गतस्तत्संमुखो भरतराजः, परस्परसङ्गमे च सातिशयसमाश्लेषादि Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy