SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ हचतुर्थेणुव्रते. जातशोकाच्च क्षणं मूर्छति क्षणं प्रलपति क्षणं वैकल्यमनुभवति रामदेवे तस्यामेव रात्रावेकविद्याधरे- सीताचरित्रं. णागत्य रामदेवस्य कथितं-यदि लक्ष्मणस्य जीवितेन प्रयोजनं तदा शीघ्रं साकेतपुरं कमपि गमायित्वा भरतमातुलस्य द्रोणमेघराजस्य पुत्र्या विशल्यायाः स्नानोदकमानाय्याभिषिच्यतामेष येन झगित्येव प्रगुणो जायते। ततस्तत्काल एव हनूमान् भामण्डलादिसहायः प्रेषितस्तत्र, तेन गत्वा भरतनरपतेः संक्षेपेण कथयित्वा तं व्यतिकरं समं तेनैव गत्वा द्रोणमेघगृहं विमोच्य पितुः सकाशाद्विशल्यां कन्यासहस्रपरिवारितां निवेश्य भामण्डलविमाने । समानीता शीघ्र, तत्करस्परों विशल्यीभूतस्तत्क्षणालक्ष्मणः, ततो गोशीर्षचन्दनविलिप्ताङ्गो विशल्यया स्वहस्तेन तत्कालमेव रूढवणः सुप्तविबुह इवोत्थितो लक्ष्मणकुमारः समालिङ्गितः सतोषेण रामदेवेन, परिणायितश्च तत्रैव महाविभृत्या विशल्यां, रावणस्तु चरपुरुषेभ्यो विज्ञाय प्रत्युज्जीवितं लक्ष्मणं क्षुभितचित्तोऽनेकधा भण्यमानोऽपि सीतार्पणकार्ये मन्त्रिजनेन प्रसाध्य बहरूपिणी विद्यां निवार्यमाणोऽपि मन्दोदर्या समं त्रिजटया निषिध्यमानोऽपि शकुनैः पुनः संग्रामाय समाजगाम रामसैन्यं, रामोऽपि समं सौमित्रिणा सुग्रीवभामण्डलादिसैन्यसंयुतेन सम्मुखो । बभूव, पुनरापतितं द्वयोरपि बलयोर्महायुद्ध, ततो लक्ष्मणेन निरन्तरबाणवृष्टया सर्वतो हतप्रसरो विहितो रावणः । ॥१८॥ Jain Education International For Private & Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy