SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ निर्जगाम स्वबलकलितो लङ्कापुर्याः, अर्द्धपथे द्वयोरपि सैन्ययोरापतितं युद्धं तावद्यावन्महता समरसङ्घट्टेन । भामण्डलो मेघवाहनेन सुग्रीव इन्द्रजिता हनूमान् कुम्भकर्णेन पन्नगविद्यया नागपाशैर्बडः, तदुन्मोचनार्थं च । रामेण भणितो लक्ष्मणः-स्मयतां सुलोचनो देवः, ततो लक्ष्मणेन स्मृतमात्रोऽसौ समागत्य सिंहनादविद्यां गारुडविद्यां विद्यदनाभिधानं गजं च लक्ष्मीधरस्य ददौ, रामदेवस्य त्वमोघे दिव्यहलमशलप्रहरणे तहयोश्च दिव्यशस्त्रपरिपूर्णों द्वौ रथी, पावनवारुणाग्नेयशास्त्राणि च युद्धजयहेतूनि समर्पयामास, स्वयं च तदनुमत्या गतः । सुरः स्वस्थानं, रामलक्ष्मणौ तु तावेव रथावारुह्याजग्मतुः सङ्ग्रामभूमि, दृष्ट्वा च गारुडविद्यापरिकरितं गारुडरथं लक्ष्मणस्य नष्टेन्द्रजिदादिनियुक्ता पन्नगविद्या सुग्रीवादीनां, मुत्कलीभूताः समागता रामशिबिरं, पुनश्च तैः। प्रारब्धेऽनेकप्रकारं दारुणे महासमरे निराक्रियमाणेषु मार्यमाणेषु च मेघवाहनादिषु राक्षसभटेषु बिभीषणेन सह . संलग्ने महारणे रावणस्य तद्वधाय मुक्तायां रावणेन शक्तौ अन्तरा निपत्याङ्गीकृतायां लक्ष्मणेनामोधप्रहरणतया प्रविष्टायां तस्यां तहक्षःस्थलं तत्प्रहारगाढवेदनाविधुरशरीरे पतिते लक्ष्मणे स्वभ्रातृताडनावलोकनोपजातकोपेन रामदेवेन निरन्तरशरनिकरवृष्टया निरस्त्ररथे नाशयित्वा प्रवेशिते लङ्कापुरी रावणे पुनर्निश्चेष्टानुजावलोकनसं AR Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy