________________
युष्मन्नामग्रहणपूर्वकप्रलापैः प्रत्यभिज्ञाता च, तेन सह सङ्ग्रामाङ्गीकरणेनारब्धा मोचयितुं, रावणेन च मम विहितो विद्यापहारः, अपरव्यतिकरं च नाहं जानामि, रामेणोक्तम्--इतः परमहमेव ज्ञास्यामि, केवलं नयत मां तत्र यत्र क्वापि रावणः, ततो जम्बवन्तेनोक्तं--यद्येवं तर्हि समुत्क्षिप्यतां प्रथममस्मत्प्रत्ययनिमित्तं कोटिशिलां, यतः पुराडनन्तवीर्यसाधुनाऽतिशायिज्ञानिनेदं कथितमासीत्--य इमामु पाटयिष्यति स रावणं हनिष्यति, ततो लक्ष्मणेनोक्तं-- दर्शय मे तां, तदनु दर्शिता सा तस्य, उत्क्षिप्ता चानेन जानुनी यावदेषा, समुद्घष्टं च देवादिमिर्यथा जयति २ अष्टमो वासुदेवः ततः सर्वेऽपि गताः किकिन्धिपुरंविहितकर्त्तव्यनिश्चयाचाऽऽनाय्य हनमन्तं नगराद्भणितवन्तो रामदेव--स्वामिन् ! प्रेष्यतामयं सीताप्रवृत्त्युपलम्भाय लङ्कापुरी प्रति, ततः समय । सीताप्रत्ययनिमित्तं स्वाङ्गुलीयकं रामः प्रेषयामासैनं, प्राप्तश्चानेकवृत्तान्तान् मार्ग एव कुर्वन् । क्रमेणासौ सपरिकरस्तां पुरी, तहहिस्ताच्च साल्यभिधानाया अङ्गारकजनन्या विद्याकृतप्राकारेण स्खलितबलस्तं पातयित्वा पाणिप्रहारेण रणोद्यतां च साली विनाश्य मुखात्प्रभृतिसकलशरीरहिधाकरणेन तदीयस्य पत्युर्वज्रमुखस्य छित्त्वा सङ्ग्रामे शीर्ष प्रविवेश लङ्कापुरी, तन्मध्येप्रविष्टः प्रथमं गतो बिभीषणगृहं,
Jain Educa
t ional
UNU
For Private & Personal Use Only
www.jainelibrary.org