________________
तीयस्तं प्रदेश, ददर्शोन्मत्तमिवेतस्ततो विचरन्तं रामं, बभाण च--भ्रातः ! किमेवमितरलोकेनेव चेष्टितुमारब्धं भवता १, योषिज्जनोचितमपहाय शोकं कार्यसारैर्भूयतां, ततस्तद्वचनाश्वासितो मनाग विगतशोको विराधितमुखं । निरीक्ष्य कोऽयमित्यपृच्छत् ,-लक्ष्मणेनोक्तं-तात! चन्द्रोदरखचरसुतो विराधिताख्यः समागतोऽयं मे । साहाय्यार्थ खरदूषणेन सह समरसंरम्भे ॥ १॥ खरदूषणे च निहते हतविप्रहतीकृते च तत्सैन्ये । त्वदर्शनार्थमागमदयं मया साईमतिभक्तः ॥ २॥ ततो रामण सीतापहारे जटायुमरणे च निवेदिते लक्ष्मणम्य विराधितेनोक्तं-ममैव दीयतामादेशो येनाहमेव करोमि सीतावात्ततॊपलम्भं, केवलमिदानी खरदूषणे विनाशिते यदि तदीयराजधानी पाताललङ्कापुरी || समधिष्ठीयते ततः सुन्दरं भवति, तद्गम्यतां तावत्तत्र, तदनन्तरं गताः सर्वे नभसा तत्र, गृहीता सा नगरी, त्रासितस्तदधिपतिः खरदूषणपुत्रः सुन्दनामा गतो रावणसमपिम्, इतश्च किंकिन्ध्यभिधानपुरे साहसगतिनामकः खचर एकः सुग्रीवरूपधारी कामयते तत्प्रियां तारां सा च न जानाति तयोर्विशेषामिति मन्त्रिमण्डलस्याग्रे कथयति, तेन द्वावपि किकिन्धिपुराबहिः क्षिप्तौ, सत्यसुग्रीवश्च युद्धेन न तं जेतुं शक्नोति, ततः कदाचित्कुतोऽप्यवगम्य खरदूषणादिमरणवाची समं निजमन्त्रिणा जम्बवन्तेन समाजगाम रामसमीपं तत्र कृता प्रतिज्ञा-यदि महार्या तारामलीकसुग्रीवान्माचयसि
Jain Education in
For Private & Personal Use Only
Www.jainelibrary.org