________________
श्रीववपवृष्टः
बान्ता
इ. चतुर्वे
व्रते.
॥१५
॥
माणामनेन केनापि, लक्षण! समागच्छ २ शीघ्रं, पश्चादागतोऽपि किं करिष्यसि दूरदेशनीतायां मयि ?, जटायो ! त्वं च सीतारकिमुपेक्षसे माममेन नीयमानां ?, स्वामिना विपक्षविजयाय गच्छता त्वं द्वितीयो मम दर्शित इत्यादि प्रलपन्ती/ यावत्कियन्तमपि देशविभागं निनाय तावदुत्थाय जटायुपक्षिणा गाढं चञ्चुप्रहारैः प्रहर्तुमारेभे रावणः, तेन कुपितेन । चन्द्रहासखड्डप्रहोरण विलूनपक्षद्वयः पातितः पृथिव्यामसौ, स्वयं च स्वीकृत्य जनकतनयां पुष्पकविमानेन गतो लङ्कापुर्या, इतश्च रामो यावलक्ष्मणसमीपं गतस्तावत्तेनोक्तं-सीतामेकाकिनी मुक्त्वा किंनिमित्तं समागतः ?, स आह-सिंहनाद ते श्रुत्वा साहाय्यहेतवे, लक्ष्मणेनोक्तं हा भ्रातः ! छलितस्त्वं केनापि, नूनमपहृता वैदेही, तद्गच्छ । तूर्णम्, इत्यभिहितो यावद्द्यावृत्त्य गतस्तं प्रदेशं तावत्तं सीताशून्यमालोक्य कतिचित्पदान्यग्रतो गत्वा कण्ठगत-|| प्राणं जटायु दृष्ट्वा नूनमस्मद्वरेण केनचिदमुं हत्वा नीता सीतेति विचिन्त्य तस्य नमस्कारप्रत्याख्यानप्रदानपुरस्सरं निर्यामणां कृत्वा सीतामन्वेष्टुं प्रवृत्तः, जटायुश्च तदत्तनमस्काराद्यनुभावेन माहेन्द्रकल्पे प्रधानदेवो जातो, रामदेवश्च प्रयत्नविहिततदन्वेषणोऽपि न यावत्तामीक्षांचके तावत्क्षणं मुमूर्च्छ क्षणं विललाप क्षणं विचचार क्षणं वनदेवता उपालेभे, अत्रान्तरे समागतो विनाश्य खरदूषणं लक्ष्मणो विराधिताभिधानखचरद्वि
..
...
॥१५
॥
Jain Education internation
For Private Personal Use Only
Liainelibrary.org