________________
सम्यक्त्वगुणो यादृक् तवोज्ज्वलो विमलशीलसंपन्नः । तादृकुतोऽन्यनारीजनस्यं ? सत्यं सुभद्राऽसि ॥२॥ सुविशुद्धशीलशालिनि ! न केवलं शासनोन्नतिर्विहिता । एवं त्वया ममापि स्थिरत्वमापादितं धर्मे ॥ ३ ॥ इत्यभिधाय स्थितवत्यस्मिन्नूचे सुभद्रया-कान्त !। मत्पित्रा यहणितं तत्स्मर मा तरलहृदयो भः ॥ ४ ॥ एवं तं स्थिरचित्तं विधाय लोकस्य सम्यगाराध्या । बुभुजे सह निजभर्ना धर्मपरा सोत्तमान् भोगान् ॥ ५॥ परलोके च स्वर्ग जगाम तस्मिंश्च दिव्यदेवढिम् । अनुभूय चिरं यास्यति, सिद्धिपुरी सा परम्परया ॥ ६ ॥ इति समाप्तं । सुभद्राऽऽख्यानकम् ॥
सम्प्रति सीताकथाया अवसरः, सा च विस्तरेण पद्मचरितादिभ्य एवावसेया, स्थानाशून्यार्थ प्रकृतोपयोगि । किञ्चिलिख्यते
यदा किलाऽयोध्याराजधान्यां दशरथो राजा स्वयं व्रतजिघक्षया प्राग्वितीर्णवरकेकयीवचनेन लघुपुत्रस्य भरतस्य राज्यं दातुकामो रामं समं लक्षणसीताभ्यां वनं विससर्ज तदा लक्ष्मणस्तत्र स्वेच्छया विचरन् अज्ञातचर्ययैव || विंशत्युत्तरशतसङ्ख्यवंशजालीमध्यवर्तिनः सूर्यहासाभिधानखड्न विद्यासाधनप्रवृत्तस्य खरदूषणखचरराजतनयस्य
Jan Education Intemanon
For Private
Personel Use Only
www.jainelibrary.org