________________
सम्यक्त्वगुणो याहक तवोज्ज्वलो विमलशीलसंपन्नः । तादृक्कुतोऽन्यनारीजनस्य॑ ? सत्यं सुभद्राऽसि ॥२॥ सुविशुद्धशीलशालिनि ! न केवलं शासनोन्नतिर्विहिता । एवं त्वया ममापि स्थिरत्वमापादितं धर्मे ॥ ३ ॥ इत्यभिधाय स्थितवत्यस्मिन्नूचे सुभद्रया-कान्त !। मत्पित्रा यहणितं तत्स्मर मा तरलहृदयो भः ॥ ४ ॥ एवं तं स्थिरचित्तं विधाय लोकस्य सम्यगाराध्या । बुभुजे सह निजभर्ना धर्मपरा सोत्तमान् भोगान् ॥ ५॥ परलोके च । स्वर्ग जगाम तस्मिंश्च दिव्यदेवढिम् । अनभय चिरं यास्यति, सिद्धिपुरी सा परम्परया ॥६॥ इति समाप्त
सुभद्राऽऽख्यानकम् ॥ Ka सम्प्रति सीताकथाया अवसरः, सा च विस्तरेण पद्मचरितादिभ्य एवावसेया, स्थानाशून्यार्थ प्रकृतोपयोगि किञ्चिलिख्यते--
यदा किलाऽयोध्याराजधान्यां दशरथो राजा स्वयं व्रतजिघुक्षया प्राग्वितीर्णवरकेकयीवचनेन लघुपुत्रस्य भरतस्य राज्यं दातुकामो रामं समं लक्षणसीताभ्यां वनं विससर्ज तदा लक्ष्मणस्तत्र खेच्छया विचरन् अज्ञातचर्ययैव विंशत्युत्तरशतसङ्ख्यवंशजालीमध्यवर्तिनः सूर्यहासाभिधानखड्न विद्यासाधनप्रवृत्तस्य खरदूषणखचरराजतनयस्य
Jan Education Intern
For Private
Personel Use Only