SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीनवपसन्ध्यासमये रचितविशिष्टजिनप्रतिमापूजा स्थिता शासनदेवताऽऽराधनाय कायोत्सर्गेण, गृहीतवती च चेतस्यभि-||सुभद्रोदाहहृद्धत्ती अद रणम्. त्तादान ग्रह-यदि ममायमभिलषितार्थो न सेत्स्यति तदान पारणीयः कायोत्सर्गः, अङ्गीकृतोऽयमेव च मया चरमोऽनशनविधिः, एवं च कृतनिश्चया यावत्कियतीमपि रात्रि निर्गमितवती तावत्तदीयदृढसत्त्वताऽऽकम्पिता स्वशरीरप्रभाजालेन दशापि दिशः समद्योतयन्ती समायाता शासनदेवता-श्राविके ! किं ते प्रियं करोमीति वदन्ती, ततोऽसावपि समुत्तारित कायोत्सर्गा व्यजिज्ञपत्-जिनशासनापवादो यथाऽयमपयात्यकारणायातः । कुरु मे तथा प्रसादं सत्यं यदि जिनमते * भक्ता ॥ १॥ देवता बभाषे-श्राविके ! अनार्थे चित्तखेदं मा कार्षीः, तथा करोमि यथा प्रातरेव शासनोन्नतिर्भवति, अद्य रजन्यवसाने चम्पापुर्याश्चतस्रोऽपि प्रतोल्यस्तावन्नोटिष्यन्ति यावत्वया चालनीव्यवस्थापितोदकच्छटाभिनाच्छोटिताः, न च त्वया यावदन्याः स्त्रियो न गतास्तावत्तत्र गन्तव्यमित्युक्त्वा तिरोदधे देवता, सुभद्राऽपि स्वाध्यायविनोदेन यावद्रात्रिशेषमतिवाहयन्त्यारते स्म तावदुचितसमये समुत्थाय प्रतोलीद्वारपालरुद्घाटयितुमारब्धाः प्रतोल्यो. नोघटिताः, मिलितः प्रचुरो लोकः, परम्परया व्यज्ञायि जितशत्रनरपतिना, समागतः खयं, तेनापि न कथञ्चित्पारिता उदघाटयितं, ततो धूपकडुच्छकहस्तः सर्वतः सुगन्धिपुष्पफलविलेपनादिमिश्रं बलिं प्रक्षेप्य समं सकललोकेनोदयो ॥ ५१॥ Jan Education International For Private Personel Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy