SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ भीनवपद चतुर्थे न्ता ५ गुण णुव्रते. ॥१४९॥ ज्ञातं-करोमि कपटश्रावकत्वं, शिक्षयामि तेषां सामाचारीमिति परिभाव्य गतः साधुसमीपम्, अभिवन्द्य च भाणित- सुन्दरीधावान्-भोः ! भोः साधवः! अहं भवभयत्रस्तो भवतस्त्राणमाश्रितः स्वधर्मरक्षया यूयं तन्मां रक्षत रक्षत, तैरपि । तद्भावमपरिज्ञायोपदिष्टो यतिधर्मः, तेनोक्तं-नाहमेनं कर्तुं समर्थो, गृहस्थावस्थोचितमेव मे किमपि धर्मस्वरूपं वदत, ततस्तैः श्रावकधर्म उपदिष्टो, गहीतस्तेनापि पूर्व कपटवृत्त्या पश्चादनवरतश्रवणेन भावसारं कथितं च गुरुपुरतो यथा-कन्यानिमित्तमेवार्य, मया धर्मोऽनशीलितः । साम्प्रतं भावतोऽप्येष, प्रतिपन्नो यथोदितः ॥१॥ ततः पञ्चाणुव्रतसप्तशिक्षाव्रतरूपं धर्ममङ्गीकृत्य गुरुमूले जातो विशिष्टश्रावकः, कारयामास सततं जिनभवनेषु मात्रयात्राद्युत्सवपरम्परां, प्रतिलाभितवान् प्राशुकैषणीयाहारादिना जैनसाधुवर्ग, प्रस्तावानुरूपं प्रवर्त्तते स्मान्येष्वपि साधर्मिकवात्सल्यादिकृत्येषु, ततो जिनदत्तोऽपि कालक्रमेण तं तथापरिणतश्रावकधर्म विज्ञाय दत्तवान् स्वदुहितरं तस्मै, महाविभृत्या च विशिष्टलग्नादौ कारितवान् पाणिग्रहणं, क्रमेण चासौ कतिचिदिनानि तत्रैव तया सह सहावसारं कामभोगसुखमनुभवन्नासाञ्चके अन्यदा च भणितो रहसि श्वशरको जामात्रा-तात ! मुच्यता-10॥ १४९ ॥ मियमात्मपुत्री येनागच्छति श्वशुरकुलं, जिनदत्त उवाच-पुत्र ! युक्तमेवैतत्कुलस्त्रीणां यत् श्वशुरकुले निव Jain Educational For Private Personal use only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy