SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ इहैव भारते क्षेत्रे दक्षिणाईमध्यमखण्डालङ्कारभूतोऽस्त्यङ्गा नाम जनपदः तत्र चम्पा नाम नगरी जितश-15 त्रुनराधिपस्य राजधानी, तस्यां चोपलब्धजिनाभिहितनिखिलजीवादितत्त्वोऽस्थिमज्जाप्रेमानुरागरक्ततया देवादिभिरपि जिनशासनाक्षोभ्यसत्त्वो दीनानाथादिदानोपभोगयोग्योपार्जितप्रचुरवित्तो जिनदत्तो नाम श्रावकः प्रतिवसति स्म, तस्य ।। चानुरूपादिगुणसमुदया दयादानादिविशिष्टधर्मानुष्ठानानुशालिनी जिनदासी नाम भार्या, तयोश्च जन्मान्तरोपात्तपुण्योदयानुरूपमिहलौकिकं पञ्चप्रकारं विषयसुखमनाबाधितधर्ममार्गमनुभवतोः कालक्रमेणोदपादि सन्निहितसकलगामिभद्रा सुभद्रा नाम कन्या, सा च शुक्लपक्षप्रतिपच्चन्द्रलेखेव प्रतिदिवसोपचीयमाननिखिलदेहावयवा समुपात्तोदात्तकलाकलापा च प्रथमे वयसि वर्तमाना कदाचिदवलोकिता तत्रैव प्रयोजनवशादागतेन शाक्यभिरुपासकपुत्रेण बुद्धदासेन, विस्मयस्मेरचक्षुश्च चिरं निरीक्ष्य तस्यां संजातगाढानुरागो गृहं गत्वा तद्वरणबुद्धया । जिनदत्तपावें निजकपुरुषान् प्रेषयामास, जिनदत्तोऽपि तानचितप्रतिपत्त्या सन्मान्याप्राक्षीदागमनकार्य, तेऽपि च | कथितवन्तः सर्व, ततो जिनदत्तोऽवादीत्-उचितमेवेदं केवलमन्यधार्मिको ह्ययमतो न ददाम्यहमात्मपुत्रिकाममुष्य, ततो गत्वा तैः कथितं श्रेष्ठिवचनं बुद्धदासस्य, सोऽपि तदनुरागविह्वलितमानसो व्यचिन्तयत्-कथं पुनरेषा मया लभ्या?, हुं Jain Education a l For Private & Personel Use Only व w w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy