________________
श्री नवपट्ट ह. चतुर्थेऽ णुव्रते.
॥ १४८ ॥
| घोरान्धकारे तामजानानश्चिरं रन्त्वा कथञ्चिदात्मीयवस्त्रबुद्धया तदीयाम्बरमेव परिधाय ततो निर्गत्य च स्वगृहमाययौ, प्रभातप्रायायां च रजन्यां स्वजननीवस्त्रसंवीतशरीरः स्वभार्यया पृष्ट उपालब्धश्च - पाप ! किमेतदाचरितं ?, जनन्यैव सह वापि नोपतो रात्रौ ?, न ह्यन्यथा वस्त्रपरावृत्तिसंभवः, ततः सोऽपि दत्तोपयोगः सत्यमिदमिति विज्ञाय गाढपश्चात्तापद हनदह्यमानमानसो निर्विण्णकामभोगस्तथाविधाचार्यसमीपे प्रववाज । परदारानिवृत्तवृत्तीनां सत्त्वानामेवमिहलोक एव दोषान् विभाव्य विवेकिभिस्तन्निवृत्तैरेवासितव्यमित्युपदेशपरः सर्वकथानकभावार्थ इति गाथार्थः ॥ ५१ ॥ व्याख्यातं दोषद्वारम् अधुनाऽवसरागतं गुणद्वारमुच्यते
परपुरिसवजणाओ, इह परलोए य लहइ कलाणं । एत्थ सुभद्दा सीया महासई दोणि दिहंता ॥ ५२ ॥
परपुरुषः — स्वभर्तुरन्यस्तस्य वर्जनं - रागबुद्धया त्यागस्तस्मात्स्त्रीति गम्यते, किमित्याह -' इह ' अत्र भवे 'परलोक च ' अन्यजन्मनि 'लभते ' प्राप्नोति 'कल्याणं ' शिवं, 'अत्र' अस्मिन्नर्थे सुभद्रा शीता च द्वे अपि, कथम्भते ? इत्याह-' महासइति महासत्यौ ' दोणि ति हौ ' दिहंत ' त्ति दृष्टान्तौ निदर्शने इति गाथाऽक्षरार्थः ॥ भावार्थस्तु कथानकाभ्यामवसेयस्ते चेमे—
Jain Education International
For Private & Personal Use Only
सुन्दरीह ष्टान्तः ५ गुणद्वारम् गा. ५२
॥ १४८ ॥
www.jainelibrary.org