SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ न्मथुरापुर्या, तत आनायि तामसौ । स्वभुक्तां यावदद्राक्षीद्गतस्तावद्विलक्षताम् ॥ ९॥ साऽपि तं पितरं ज्ञात्वा, लज्जयाऽन्तः प्रविश्य च । शीघ्रमहन्धनं कृत्वा, प्राणत्यागमथाचरत् ॥१०॥ गाढानुपातज्वलनज्वालाऽऽलीलढिमानसः सूरीणामन्तिके दीक्षां, सद्यो जग्राह तत्पिता ॥ ११ ॥ अन्यद्वा वणिक्सुतोदाहरणमुपदर्श्यते एकस्मिन् ग्रामे देवानन्दनामा वणिक् प्रतिवसति स्म, तस्य पत्नी गुणवत्यभिधाना, तत्पुत्री सुन्दरी. कसा च ग्रामान्तरवास्तव्येन यशोनन्दनामधेयेन कुलपुत्रकेण परिणीता, क्रमेण चास्या उदपादि नन्दाभिधः पुत्रो, गतो वृद्धिमुपारूढो यौवनं च परिणायितः पितृभ्याम्, अन्यदा च मरणपर्यवसानतया जीवलोकस्य मृतस्तत्पिता । यशोनन्दः, सा च सुन्दरी तन्माता जाता दुश्चारिणी, ज्ञाता च नन्दपल्या, कथितं च नन्दस्य यथा त्वन्माता न । शोभना, न चासौ तद्वचनमनुमन्यते, अन्यदा च रजन्यामेकदेवकुले सा सन्दरी केनचिहिटेन सह दत्तसङ्केता। जातस्यैवागमनं प्रतीक्षमाणा यावत्तिष्ठति स्म तावत्तत्पुत्रो नन्दोऽपि केषाश्चित्खिङ्गप्रायाणां पुरुषाणां मिलितस्तस्यैव! देवकुलस्य द्वारभूमिमाजगाम, ते च पुरुषाः कथञ्चित्तन्मध्यप्रविष्टास्तामेकाकिनी विलोक्य ताम्बूलादिदानपूर्व प्रार्थितवन्तः, क्रमेण तया सह सर्वेऽपि रमित्वा कियत्याऽपि वेलया बहिर्निर्गत्य तमेव नन्दं प्रवेशितवन्तः, सोऽपि । Jan Education in For Private Personel Use Only Hw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy