________________
पप्रच्छ-भगवति ! यन्मया निजभ्रातरि भर्तृबुद्ध्या चेष्टमानया पातकमुपार्जितं तच्छोधनोपायो भवदीयप्रव्रज्या भवति न वा ?, गणिन्योक्तं-भद्रे ! भवति, यत उक्तमस्मदागमे.-" सव्वावि य पवज्जा, पायच्छित्तं भवंतरक
डाणं । पावाणं कम्माणं तो एत्थं नत्थि दोसोत्ति ॥ १॥" तत इदमाकर्ण्य प्रवर्द्धमानशुभाध्यवसायया तयोक्तंकायद्येवमविलम्बितं प्रयच्छ मे भगवति ! स्वकीयदीक्षा तयाऽपि तद्योग्यतामवगम्य दीक्षिता सा, गृहीतद्विविध-| शिक्षा कालेन षष्ठाष्टमदशमहादशादितपोविशेषशोषितशरीरा ब्रह्मचर्यभावनाः पञ्चापि विशेषेण पुनः पुनरावर्तयन्ती विशुद्धनवब्रह्मगुप्तिपरिपालनपरा प्रशस्ताध्यवसायस्थानकारोहणक्रमेण संजातावधिज्ञानावरणकर्मक्षयो । पशमाऽवधिज्ञानमन्ववापत, तेन ज्ञातः कुबेरदत्तो मात्रा सह विषयाननुसेवमानः, ततस्तत्प्रतिबोधनार्थ गणिनीमापृच्छ्य। जगाम मथुरापुरी, तद्गृहैकदेश एवानुज्ञाप्यावग्रहं स्थितवती, पित्रोः समक्षं च कदाचित्तं बालकमादाय-वत्स ! त्वं मे पुत्रोऽसि भ्राताऽसि भ्रातृजोऽसि देवरोऽसि, त्वत्पिता मे भ्राता पिता भ" श्वशुरश्च, तव जनन्यपि मम । माता श्वश्रूः सपत्नी भ्रातृभार्या चेति विरुद्धवचोभिरुल्लापयन्ती क्रीडयति स्म, ततः कुबेरदत्तो बभाण-आयें ! किमेवमसमञ्जसं जल्पसि ?, साध्वी प्रोवाच-महानुभाव ! नासमञ्जसं, यदि कौतुकमाभाति तदा शणु क्षणमात्रमव
For Private & Personal Use Only
www.jainelibrary.org
in Education International