________________
श्रीनवपदवृचतुर्थेऽशुव्रते.
॥ १४६ ॥
Jain Education
| रीक्रियतां, महेश्वरदत्तेन त्वेवमस्त्वित्यभिधाय कुबरदत्तां स्वयं गृहीत्वा कुबेरदत्तं च तस्यार्पयित्वा स्वगृहमाययौ, कालेन च ते तद्गृहयोः सुखंसुखेन वृद्धिमुपगते, यथौचित्यमेकोपाध्यायसमीपे एव कलाग्रहणं कारिते, जातश्च तयोः परस्परं । स्नेहः, क्रमेण चोपारूढौ यौवनं, उचितसमये च श्रेष्ठिभ्यां को ह्यनयोरतिस्नेहवतोर्वियोगं करिष्यतीति पर्यालोच्य | कारितं परस्परमेव पाणिग्रहणम्, अन्यदा च द्यूतविनोदेन तिष्ठतास्तयोः संचारिता ग्रहणके स्वनामाङ्कमुद्रा कुबेरेदतया, कुबेरदत्तोऽपि तामालोक्य स्वमुद्रया सहैकघटनामचिन्तयत् - कथमेतन्मुद्राद्दयमेकघटनं समाननामन्यासं चिरन्तनमावयोः ?, एकोदरोद्भूतापत्यतयैवावां क्वापि नाभूव, न च ममास्या उपरि कदाचिद्भार्याबुद्धि - [ ग्रन्थाग्रम् | ४००० ]- स्तद्गत्वा पितरावापृच्छामि, देवगुरुशपथदानपूर्व च पृष्टौ तौ यथावत्कथितवन्तौ मञ्जूषालाभवृत्तान्तं, हा ! न सुन्दरमाचरितमित्यभिधाय कुबेरदत्तायास्तं वृत्तान्तं प्रकथ्य पितृगृहं च तां प्रस्थाप्य स्वयं मथुरायां व्यवहारबुद्धया गतः, तत्र च भवितव्यतावशेन तस्या एव निजमातुः कुबेरसेनायाः कथञ्चिगृहं गतः, दृष्टा सा, जातानुरागो भाटीप्रदानपूर्व तयैव सह विषयसुखमनुभूतवान् क्रमेण च सैव स्वपरिगृहे धृता, पुत्रश्च जातः । इतश्च कुबेरदत्ता तदैव वैराग्यमूरीकृत्य, सुत्रतागणिनीसमीपे सविस्तरां धर्मदेशनामाकर्ण्य संजातचरणपरिणामा
For Private & Personal Use Only
कुबेरसेनादृष्टान्तः
॥ १४६ ॥
www.jainelibrary.org