________________
कुबेरसेना नाम गणिका, तस्याश्चान्यदा कथञ्चिद्गर्भसम्भवे महती शरीरबाधोदपादि. कथितं वैद्यस्याग्रे, तेन चादिष्टं-यथा युग्मगर्भदोषोऽयं, न तु रोगदोषः, ततस्तदम्बयोदितं--हे वत्से ! प्रसवसमये महती । ते बाधा भविष्यत्यत औषधादिना गालय गर्भमेनं, तयोक्तं-को हि नाम जानान एवंविधमतिदारुणं पातकमकीकरोति ?, तस्मादस्तु इत्थमेवायं गर्भो, यद्भवति तद्भवतु, ततश्च कालक्रमेण प्रसूता दारकदारिके, जन
न्योक्तं-परित्यजैते. कुबेरसेनाऽब्रवीद-अम्ब ! दशरात्रमनुपाल्य त्यक्ष्यामि, एवमस्त्विति प्रतिपन्ने कुबेरदत्तकुबेरदत्ताINनामाङ्कः मुद्रिके घटयित्वा तयोरेव कण्ठे बद्ध्वा दिव्यमञ्जूषां च सुयन्त्रितां कारयित्वा तन्मध्ये ते गभेरूप प्रा.
मञ्जूषां च सुयन्त्रितां कारयित्वा तन्मध्ये ते गर्भरूपे प्रक्षिप्य ।। दशमदिवसे यमुनायां प्रवाहिते, प्रभातसमये च सौर्यपुरवास्तव्यकाभ्यां महेश्वरदत्तयक्षदत्तनामकाभ्यां श्रेष्ठिकाभ्यां शरीरचिन्तां विधाय यमुनातट एव शौचमाचरयां ददृशे सा लोलकल्लोलमालयोह्यमानाऽऽगच्छन्ती मञ्जूषा तटनिकटम्, आगता च गृहीत्वोढाटिता यावत्तावदवलोकितं मध्येमञ्जूषं बालकयुग्ममेकं, तयोरनुपमरूपधारको । दारकोऽपरा च दारिकेति, ततो महेश्वरदत्तेनाभाणि-भो यक्षदत्त ! सुरूंपमेतयुग्मकं कस्यचित्, केवलमित्थमेवमुक्तं व्यसनपरम्परां मरणं वा प्राप्स्यति अतः संगोप्यतामेतत, ततो यक्षदत्तेनोक्तं यद्येवं पुत्रो ममार्ग्यतां पुत्रिका स्वयमेवोर
For Private Personal Use Only
www.jainelibrary.org
Jan Education International