________________
Soon
स्वागतं ?, प्रष्टव्योऽसि, तेनोदितं-गिरिनगरात, ततः सा वनगरनामग्रहणादानन्दिता विशेषेणोज्जयन्तादिवार्तामा च्छय निजगाद-सन्ति तत्र जिनदत्तप्रियमित्रधनदत्ता महाश्रेष्ठिपुत्राः सपुत्रकाः क्षेमेण?, तेनोदितं-सन्ति, किंतु किं विशेषेण तहात पृच्छ्यते ?, तयोदितं-वयं तिस्रोऽपि तैर्विवाहिता अभूवन् , एकैकपुत्रकं च प्रसूतवत्यः, ततश्चैौरैरिहानीय । वेश्याहस्ते विक्रीताः, तेनोक्तं--वयं ते त्रयोऽपि युष्मत्पुत्राः, अहं तावजिनदत्तपुत्रो जिनवल्लभः, इतरौ तु प्रियमित्रधनदत्तपुत्रौ प्रियावहधनावहनामकाविति, अन्ये त्वाः, यथा कुलदेवतया जिनवल्लभस्याईपथे सवत्सगोरूपमुपदर्शितं, गोसमीपोपविष्टवत्सपृष्ठे च तेन भवितव्यतावशादमध्यखराण्टिताहेः प्रोञ्छनं कृतं, ततो वत्सेन स्वमातुः कथितं, तया च मानुषभाषयोदितं-वत्स ! कियदेतदस्य दुश्चेष्टितं ?, अयं हि पापकर्मा निजमात्रा सममद्य भोगान् भोक्तुमुद्यतो विद्यते, ततस्तद्वचनश्रवणोपजातशङ्को जिनमतिगृहं प्रविष्टः, स एव सर्वोदन्तं पृष्टवान्, ततस्तया कथिते
ववृत्तान्ते मम माता सा त्वमितरे तु मम मित्रयोर्मातरावित्यवोचत, ततः सा साध्वसेनोत्थाय तस्य ग्रीवायां: विलग्य रोदितुं प्रवृत्ता, सोऽपि तथैव, ततः परस्परं सुखदुःखप्रच्छनेन क्षणमात्रं स्थित्वा जिनवल्लभेनोक्तम्-अम्ब ! मया तावन्मनागकार्य नाचरितं, ताभ्यां तु मम सहइयां स्वस्वजननीपार्श्वगताभ्यां किमपि कृतं ।।
Jain Education in
For Private & Personel Use Only
vww.jainelibrary.org