________________
श्रीनवद ह. चतुर्थेऽ णुव्रते.
॥ १४४ ॥
व्यास्याहष्टान्तः
सह
गताः पारसकूलं, दर्शितवन्तस्तत्रत्यस्य लोकस्य स्वभाण्डानि अत्रान्तरे समागतास्तास्तिस्रोऽपि तत्समीपमुपात्तो- गिरिनगरदात्तवेषालङ्कारा वेश्याः कथितं तदग्रे पार्श्ववर्त्तिना लोकेन यथैतासां स्वयमत्रत्यनृपतिना प्रसाददानमीदृशं कृतमास्ते- ये केचिदत्रोपागच्छन्ति व्यवहारगत्या तैरेतासां षोडशोत्तरं २ शतं दत्त्वैताभिरेव विषयसुखमनुभवनीयं ततो वणिक्पुत्रैः एवमस्त्वित्यभिधायोचित ताम्बूलादिदानपूर्वकं तद्गृहाणि विज्ञाय प्रेषितास्ताः स्वगृहाणि, स्वयं च भाण्डप्रतिभाण्डक्रयविक्रयादिव्यापारेण दिवसमतिवाह्यास्तं गते चक्रवाकबान्धवे गभस्तिमा लिनि प्रवृत्तेऽभिसारिकासार्थपरमानन्दजनके सन्ध्यासमये मन्दमन्दमुन्मिषत्सु परिदृश्यमानेषु तारतारकेषु क्रमेण | तिमिरनिकरापूर्यमाणासु समस्ताशासु धृत्वा स्वस्थाने रक्षपालान् षोडशोत्तरं २ शतं द्रम्माणामादाय तासां गृहाणि जग्मुः, ताभिश्च तदागमनप्रतीक्षणाक्षणिक चेतोवृत्तिभिरवलोक्य तान् आगतांश्चक्रेऽभ्युत्थानासनदानाद्युपचारः, स्थिताश्च कियच्चिरमपि परिहासादिविनोदेन, नीताश्च क्रमेण स्वशयनीयस्थानानि तेषु च जिनदत्तपुत्रः श्रावकः संपुटकं च खटिकां च गृहीत्वा समायातः, स च क्षणमात्रं जिनमत्या सह संभाषणादि विधाय प्रदीपान्तिकवयैव संपुटकमुच्छोटय लेखकं गणितुमुपचक्रमे, साऽपि तदग्र एवोपविष्टा, कियत्याऽपि वेलयाऽवादीत् - आर्यपुत्र ! कुतः
Jain Education International
For Private & Personal Use Only
॥ १४४ ॥
www.jainelibrary.org