SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ __ अत्र प्रत्याख्यानं ' चतुर्थव्रते ' इति तुर्यपादेन सर्वत्र सम्बन्धः, ततश्च द्विविघंत्रिविधेन-न करोमि न कारयामि मनोवाक्कायेरेवंविधभङ्गकलक्षणेन वैक्रियमैथुनविषयं प्रत्याख्यानं जायते इति शेषः चतुर्थाणुव्रते, भावार्थश्वायम्-श्रावकस्यानुमतेः सर्वत्राप्रतिषेधात् सामान्येन वैक्रियदेव्यादिसत्कं द्विविधत्रिविधभङ्गकेन मैथुनविरमणं भवति, तिर्यङ्मनुष्यमैथुनविरतिः केन २ भङ्गेनेति चेदुच्यते एगविहतिविह तिरियमि मणुयं चरिमभंगे, ति, अत्र सूत्रत्त्वात्तृतीयाविभक्तिलोपेन एकविधत्रिविधेन न करोमि मनोवाकायैरेवंविधभङ्गकेन तिरश्चि-तिर्यग्विषयं प्रत्याख्यानं, मनुजं च-मनुष्यविषयं पुनर्विषयविषयिणोरभेदोपचारात् 'चरिमे भंगे' त्ति चरमेण भङ्गेन-एकविधैकविधलक्षणेन, न करोमि कायेनेत्येवंरूपेणेत्यर्थः, सप्तम्यास्तृतीयार्थत्वात् , तात्पर्यार्थश्चायं गवादीनां वृषभादिसंयोजनप्रकारेण तिर्यविषयमैथुनकारणानुमत्योः प्रायशः ।। श्रावकेण निषेडुमशक्यत्वात् तैरश्वमैथुनप्रत्याख्याने एकविधत्रिविधलक्षणो भङ्ग उक्तः,मानुषे स्वस्वापत्यविवाहादौ कारणानुमतिभावाद्वलवद्वयापारतया मनोवचननिरोधस्य च दुःशक्यत्वादेकविधैकविधेनेत्युक्तं, मनोवशत्वादिस्वयोग्यतापरस्य । तु परेणापि प्रकारेण प्रत्याख्यानग्रहणसम्भवात् शेषा अप्यष्टौ भङ्गाः पदत्रयेऽप्यनिषिद्धा एष्टव्या इति गाथार्थः॥५०॥ Jain Education in EMA For Private & Personal Use Only Maw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy