________________
दोषद्वारे विजयचोरकथा.
॥१२८MINI
श्रीनवपद- कृतवान् ? कथं चानेनैवान्तः प्रविश्य सकलगृहसारमादाय निर्यात इत्याश्चर्यमेतदित्यादि वदतो जनस्यालापान हवृत्तौ अदचादाने |
श्रत्वा ननु सत्यमेवैष जना मन्त्रयन्ते कथमहमत्र प्रविष्टो निर्गतो वा कथं वा मयेदमीशं कृतमिति विचिन्तयन् स्वसामर्थ्य विज्ञानोपजातविस्मयः स्वयमेव स्वकृतकर्मासम्भावनया क्षणं कपाटपट्टायमाने वक्षसि क्षणं विकटकटीतटे क्षणं पुत्रमुखे क्षणं क्षत्रद्वारे चक्षुरपातयत्, ततश्चासौ तथाविधविशिष्टचेष्टाविष्टतनुतया तत्स्थाननिकटवर्तिभिरेवारक्षकैरिङ्गिताकारादिभिरयमेव चौरो नान्य इत्यवबुध्य दण्डाघातताडनापुरःसरं विहित. पृष्ठतोमुखबाहुबन्धनो राज्ञः समीपमुपनिन्ये, तेन च विविधविडम्बनापूर्वकं वध्यभूमावुपनाय्य विचित्रयातनाभिदशविधप्राणेभ्यः पृथक्कारित इति ॥ अत्र च मण्डकोदाहरणेनादत्तादानदोषद्वारस्य गतत्वाद्विजयोदाहरणं तच्छास्त्रप्रसिद्धैवंविधोदाहरणबाहुल्यख्यापनार्थम्, अनेन च मण्डिकायुदाहरणहयेनात्रैव जन्मन्यनेकदुःखावसानमदत्ताN दानमित्येतदोषद्वारं निरूपितम्, इदानीमेतत्परिहारे यो गुणस्तदुपदर्शनाय पञ्चमं गुणद्वारमाह
परदव्वहरणविरया गुणवंता पडिमसंठियसुसीला ॥ इहपरलोए सुहकित्तिभायणं णागदत्तो व्व ।। ४२ ॥
|॥१२८॥
Jain Education intannel
For Private & Personel Use Only
w.jainelibrary.org