________________
यत्तदोर्भवन्तीति क्रियायाश्चाध्याहारादेवं योजना-ये 'परद्रव्यहरणविरताः' परेषां द्रव्यं परद्रव्यं तस्य हरणं परद्रव्यहरणं-परद्रव्यापहरणं तस्माद्विरताः, कोऽर्थः?-अन्यदीयद्रविणचोरणानिवृत्ताः, तथा गुणाः सम्यक्त्वादयस्ते विद्यन्ते येषां ते तथा, असाधारणविशुद्धजीवधर्मोपेताः, किञ्च-प्रतिमा-दर्शनप्रतिमाद्या कायोत्सर्गों वा तत्र संस्थिताः प्रतिमासंस्थिताः, तथा शोभनं शीलं-चारित्रं येषां ते सशीलाः प्रतिमासंस्थिताश्च ते सुशीलाश्च ते तथा.17
कायोत्सर्गस्थिताः सचारित्राश्चेत्यर्थः, इह-अत्र जन्मनि परलोके-अन्यभवे, ते किमित्याह-सुखं च-शर्म | कीर्तिश्च-यशःकीर्ती तयोर्भाजनं-स्थानं यहा शुभा-पुण्या या कीर्तिस्तस्या भाजनं, भवन्तीति सम्बन्धः, क इव ?'नागदत्त इव ' नागदत्तभिधानश्रेष्ठिपुत्र इवेति गाथाऽक्षरार्थः ॥ ४२ ॥ भावार्थस्तु कथानकगम्यस्तच्चेदम्
वाराणसीपुरीए जियसत्तनरेसरस्स वरमित्तं । धणयत्तो नामासी सेट्ठी सुविसिद्वगुणजुत्तो ॥ १॥ जिणसासणमि रत्तो नियगुरुजणचरणसेवणासत्तो । साहम्मियजणभत्तो मयमच्छरदोसपरिचत्तो ॥२॥ मयरद्धउव्व रूवेण तह य थिरयाएँ अमरसेलोव्ध । गंभीरयाएँ जलहिव्व जो य धणउब्व रिद्धीए ॥३॥ तस्सासि हिययदइया सिरिव्य कण्हस्स धणसिरी भज्जा । लायण्णरूवजोव्वणसोहग्गकलाकलावड्डा ॥॥ जम्मंतरसुचरियसलिलसित्तवर
Jan Education
For Private
Personel Use Only
ww.jainelibrary.org