________________
मेतस्यैवं प्रयत्नवतोऽपि न शक्नोमि तं तस्करमुपदर्शयितुमतो धिग् मामित्युत्पन्नगुरुविषादादिवास्तमुपागते गभस्तिमालिनि । कियन्मात्रमेष तस्करोऽहमेनमुपदर्शयामीत्युदाममत्सरादिव क्षणमात्रं सरागमुल्लस्य तत्सामर्थ्यवन्ध्यताजातवैलक्ष्यादिव । विच्छायीभूय क्षयमुपगतायां सन्ध्यायां पश्य मत्साहाय्यान्निपुणमीक्ष्यमाणोऽप्यारक्षिकलोकेनासौ न मनागप्युपलक्षित
प्रकर्षादिव तारतारकनिकरानट्टहासच्छदानिव दर्शयन्त्यां रजन्यां तयैव च तद्गोपायनार्थमिव सर्वतः प्रसारिते नीलपट इव सकललोकलोचनप्रसरहारिणि बहलतिमिरपटले स विजयचौर एकस्मिन्नीश्वरसद्मनि । दुरारोहतरे पद्माकारं क्षत्रं पातयित्वा समस्तमपि गृहसारमादाय स्ववासमयासीत्, क्षणमात्रेण विभातायां विभावयीं| क्क यासि एष गृहीतोऽसीति संभ्रमादिव सर्वतः प्रसारितकरे समुत्थिते सहस्ररश्मौ किमद्यापि सुप्यते युष्माभिरवलोक्यतां क्षत्रमिति वाती निवेदयितुमिव तद्वारेणैव गृहान्तः प्रविष्टे रश्मिमण्डले क्षत्रावलोकनसंभ्रमाकुलितगृहजनकलकलोन्मिलिते नगरारक्षकादि (ग्रन्थाग्रम् ३५००) लोके स विजयतस्करः कुतोऽपि तथाविधभवितव्यताकालपाशकाकृष्टो विहितस्नानविलेपनाशनायलङ्कारशृङ्गारः समं पुत्रेण तत्रैव जनसमाजमध्ये समाजगाम, तत्र चायं तथाविधदुरारोहप्रासादे पद्माकारं लघुहारं क्षत्रमालोक्य कथं नु नामैवंविधदुरारोहस्थानमारुह्यासावीदृशमतिचित्रं क्षत्रं
Jain Education
a
l
For Private & Personel Use Only
Hww.jainelibrary.org