________________
कथा.
॥ १२७॥
श्रीनवपन्तमकारुण्योपेतोऽवस्वापिन्याद्यनेकचौरविद्याबलावलेपदृप्तहृदयः स्तेयाहितचित्तवृत्तिर्विजयनामा तस्करः तस्करत्वो- दोषद्वारे हवृत्तौ अदा तादाने पार्जितापर्यन्तद्रव्यसञ्चयसमुत् समुत्तस्थौ, तेन चाविज्ञातागमनेन कृतान्तेनेव प्रतिदिनापव्हियमाणप्रधानगृहसारोऽपरं "
विजयचोरपरिरक्षणोपायमात्मनोऽनवलोकयन्निःशेष एव नगरीजनो राजानमुपतस्थौ, बभेष चोपायनार्पणादिपूर्व-चतुरङ्गवरूथिनीभराक्रमणावनमितवसुमतीभारभुनफणिपतिफणाचक्रवाले सत्यपि भवति भूप.ले नगरीयमराजिकेव देव! बाढमुपद्रुता ।
तस्करैः, न सा काचिदतिक्रामति रात्रिर्यस्यां द्वित्राणि क्षत्राणीश्वरवेश्मसु न पतन्ति, तदिदमाकर्ण्य देवः प्रमाणं, राजाalsप्यश्रुतपूर्व तत्तथाविधमुपश्रुत्य नागरिकवचनं महदप्येवंविधोपालम्भभाजनं संवृत्त इति मनाङ् मनस्युपजातखेदस्तूर्ण , स्थित्वा क्षणं इतः प्रभृति सर्व सुन्दरं करिष्यमीति प्रतिपाद्य नगरीजनं व्यस यत्, क्षणाच्चाहाय्य नगररक्षकाधिपतिमब्रवीत् ।। -भो! भो ! किमयमेवंविधः प्रमादो भवतो यदेवं प्रतिदिवस मुष्यमाणामपि मोषकैर्नगरी न स्वयं पालयसि, नापि मम । वार्ता ज्ञापयसि, तदिदानीमेष एव ते दण्डो यत्पञ्चरात्रमध्ये चौरं लभस्वान्यथा तथैव चौरनिग्रहं करिष्ये, सोऽपि यथाऽऽज्ञापयति देव इत्यभिधाय प्रणामपूर्वकमुत्थाय तत्स्थानात्तत्प्रभृत्येव त्रिकचतुष्कचत्वराराममठविहारशून्यशालापणादि-| निलयेषु आकारादिभिस्तदुपलक्षणाक्षणिकचित्तवृत्तिः सपरिवारो दिवसमतिवाहितवान् , अत्रान्तरे सकलजगच्चक्षुरप्यह
॥१२७.
En El
For Private
Personel Use Only
www.jainelibrary.org