________________
दुष्टशिष्टेषु, नीतौ निग्रहपालने ॥ १६ ॥ एवं विचिन्त्य पञ्चत्वं, प्रापितोऽसौ महीभुजा । वेदयित्वा महद् दुःखं, विचिKa त्रैर्यातनाशतैः ॥ १७ ॥ एवं मण्डिकवृत्तान्तः, सङ्क्षपेण निवेदितः । उत्तराध्ययनवृत्तेविस्तरेणावबुध्यताम् ॥ १८ ॥ अदत्तादानदोषेऽत्र, तावदेकं कथानकम् । उक्तं च मण्डिकस्यातो, विजयस्याधुनोच्यते ॥ २१९॥
अस्ति रम्यतानिरस्तसमस्तसुरलोकलोचनानन्ददायिस्थान रवीक्ष्यमाणप्रेक्षणकादिविविधविलासविस्तरविस्तरदतुच्छसच्छायमहोत्सववितीर्यमाणदीनानाथातिथिप्रभृतिप्रभूतजनकाञ्चनादिपदार्थसार्था सार्थिकवास्तव्यादिभेदभिन्न-H लोकसङ्घातसंजनितप्रमोदपरिदृश्यमानसदापुष्पितप्रचुरचम्पका चम्पाभिधाना नगरी, तस्यां बन्दीकृतारातिसामन्तसीमन्तिनीसमूहविधीयमानशुद्धान्तवधूविविधचरणपरिचरणोपलक्ष्यमाणप्रौढप्रतापः प्रतापाक्रान्तविक्रान्त-1101 भूपालमौलिमालामाल्यमलनदुर्ललितपादपल्लवो लव इव विषमशरशरासनवशीकृतोदामरामो जितशत्रुनामा । महीपतिरासीत् तस्य कुलक्रमसमागतासमशेमुष्युपहसितामरमन्त्रिणि मन्त्रिमण्डले निवेशितराज्यचिन्ताभारस्य सकलान्तःपुरप्रधानया नयविनयशालिन्या शालीनतादिगुणकलापधारिण्या धारिण्याख्यया प्रवरदेव्या सह सुखं विषयसौख्यं समनुभवतोऽतिचक्राम कियानपि कालः, अन्यदा च तन्नगर्यामविचार्यानार्यचर्यापरोऽत्य
Jain Education
For Private Personal Use Only
w.jainelibrary.org