________________
सङ्गन्तः । सदेहः कामदेवोऽयं ननं रत्या विवर्जितः॥९॥ मदीयजीवितेनापि, यदयं जीवितेश्वरः । भूयादीपालिकाकोटी, यावदक्षतजीवितः ॥ ९१॥ एवं संचिन्त्य तं कूपं, प्रदर्यानुपलाक्षतम् । भावानुरक्तया शीघ्र, पलायस्वेति संज्ञितः ॥ ९२॥ तदभिप्रायमागम्य, ततस्तत्र पलायिते । भ्रातृविज्ञापनाहेतोश्चके कोलाहलस्तया ॥ ९३ ॥ भ्रातीतः ! समागच्छ, गृहाणैतमसौ गतः । श्रुत्वैवं सोऽपि तद्रव्यमसंगोप्यैव निर्गतः ॥ ९४ ॥ करालकरवालं च, करे कृत्वाऽस्य पृष्ठतः । क्व यास मदग्रे त्वं, वदन्नेवं च धावितः ॥ ९५ ॥ मूलदेवोऽपि तं ज्ञात्वा, वेगान्निकट
म् । आश्रित्य चत्वरस्तम्भमेकमन्तरितः स्थितः ॥ ९६ ॥ सोऽपि ककृपाणेन, तमद्देशमुपागतः। तमेव । स्तम्भमाजघ्ने, तद्बुध्ध्या तीव्ररोषतः ॥ ९७ ॥ यहा-अयथावस्थितं वस्तु, कोपाद्यन्तरितेक्षणः । पश्यति प्रायशो की लोकस्तथा चोक्तं महात्मभिः ॥ ९८ ॥ " कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः । अभृतानपि पश्यन्ति, पुर-NI तोऽवस्थितानिव ॥ ९९ ॥" हतो मयाऽयमित्येवं, ज्ञातश्चौरो मयेति च । प्रहृष्टौ चौरराजानौ. वं खं स्थानमयो गतौ ॥ २०० ॥ विभातायां विभावर्यामुद्गते दिननायके। कृतप्रभातकर्त्तव्यो, राजा स्वल्परिच्छदः ॥ २०१॥ अश्ववाहनिकाव्याजं, कृत्वा चौरदिदृक्षया । हट्टमार्गेण निर्यातः, क्षिपन् दृष्टिमितस्ततः ॥ २०२॥ अत्रान्तरे
Join Education Intel
For Private
Personel Use Only
allw.jainelibrary.org