SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीनवपदवृ- हजुत्तौ अद दोषद्वारे माण्डककथा त्तादाने तस्यकरोदिदम् । सैष संभाव्यते नूनं यन्निमित्तो मम श्रमः॥ ७७॥ तदुत्तिष्ठामि गच्छामि, पश्याम्येतस्य के चेष्टितम् । किं करोति क वा याति ?, धष्टोऽयं वीक्ष्यते यतः॥ ७८ ॥ एवं संचिन्त्य चलितः, समं तेन गतश्च सः। एक धनपतेर्गेह, क्षत्रद्वारेण तत्र च ॥ ७९ ॥ प्रविश्य हरितं पूर्व, द्रव्यमादाय निर्गतः । आरोप्य तच्छिरस्यसकृतोऽसावात्मनः पुनः॥ ८० ॥ स्वयं च खङ्गमादाय, प्रस्थितः पृष्ठतस्ततः । गतो यावत्पुरद्वारं दत्वाऽवस्वापिनी ततः ॥ ८१॥ प्रतोलीद्वारपालानां, द्वारमुद्घाट्य वेगतः । भूमिगृहमनुप्राप्तः, पुरदूरव्यवस्थितम् ॥ ८२ ॥ तत्र प्रवेशितः पूर्व, मूलदेवस्ततः स्वयम् । प्रविश्याहितसङ्केतां, भगिनीमादिदेश सः ॥ ८३ ॥ भद्रे ! प्राघूर्णकस्यास्य, |महादरपुरःसरम् । पादधावनमाधेहि, देहि भद्रासनं परम् ॥ ८४ ॥ ततः , समागच्छोपविश्यताम् । अत्रेति स्थानमेतस्य, ससंभ्रममदर्शयत् ॥ ८५ ॥ अन्धकूपान्तकत्वेन, प्रत्यासन्नीकृतान्तके। मूलदेवोऽप्यजानानो, निविष्टस्तत्र विष्टरे ॥ ८६ ॥ साऽपि पानीयमादाय, पादं प्रक्षालनच्छलात् । यावदुत्पाटयत्यस्य कृपप्रक्षेपणोद्यता ॥८॥ सौकुमार्यगुणाधिक्यनवनीतजयावहम् । तावत्तदंहिसंस्पर्शमनुभूय व्यचिन्तयत् ॥ ८८॥ यथा पादतलेऽमुष्य, मृदुत्वमनुभूयते । तथा मन्येऽहमेषोऽत्र, कश्चित्सौख्यनिधिर्नृपः ॥ ८९ ॥ किञ्च-रूपलावण्यसौभाग्यभाग्यसम्पत्ति Jain Education II For Private & Personel Use Only XY ww.jalnelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy