________________
| पुरेऽधुना ॥ ६४॥ लोकानामेवमारावं; समाकर्ण्य महीपतिः। जातलज्जः समाहूय, दण्डपाशकमब्रवीत् ॥६५॥ भो ! भो ! प्रमत्तता किं ते; वर्त्तते निजकर्मणि ? । उद्वेजितं पुरं सर्व, येनैवं क्षत्रपातकैः॥६६॥ स प्राह-देव ! रोष परित्यज्य, विज्ञप्तिः श्रूयतां मम । नोपलब्धो मया चौरो, गाढयत्नवताऽप्यलम् ॥ ६८ ॥ तथा च भ्रमणं रात्रौ, पुरस्या-1 न्तर्बहिस्तथा । समं पदातिवृन्देन, करोमि प्रतिवासरम् ॥ ६८ ॥ तण्डकः स्वामिनः (तण्डकांश्वाभितः) कृत्वा, स्थाने २ चतुष्किकाः । निविष्टाश्च तथा देव !, नोपलब्धस्तथाऽप्यसौ ॥ ६९ ॥ एवं तस्य वचः श्रुत्वा, चिन्तयामास भूपतिः।।
र्ततमः कोऽपि, स यो नैवमपीक्ष्यते ॥ ७० ॥ तदद्य स्वयमेवाहं, यतिष्ये तन्निरीक्षणे । एवं संचिन्त्य संतस्थे, यावदरतं गतो रविः ॥ ७१ ॥ तमोभरनिरुद्धे च, सर्वतो मण्डले दिशाम् । नीलं पटमपावृत्त्य, प्रासादानिर्गतो नृपः ॥ ७२ ॥ चतुष्कचत्वरारामशून्यदेवकुलादिषु । भ्रान्त्वा भ्रान्त्वा स निर्विण्णस्तस्करं न समैक्षत ॥७३॥ ततो रात्रेरतिक्रान्ते, यामयुग्मे नराधिपः । सुप्तो हट्टकुणीकोणमुपश्रित्य श्रमान्वितः ॥ ७४ ॥ अत्रान्तरे । समायातस्तस्करो मण्डिकाभिधः । बभाण मूलदेवं सः, कस्त्वं ?, कार्पटिकः प्रभो! ॥ ७५ ॥ यदि त्वं सत्यमे-d बेह, प्रभुं मामभिमन्यसे । तदुत्तिष्ठ समागच्छेः, करोमि त्वामपीश्वरम् ॥ ७६ ॥ श्रुत्वैवं मूलदेवोऽपि, स्वचे--
Jain Education
For Private
Personal Use Only
www.jainelibrary.org