________________
क्रमे । दुष्णापाणि न चैतानि, विषयासक्तचेतसाम् ॥६३ ॥ यदुक्तम्-“कोऽर्थान् प्राप्य न गर्वितो ? विषयिणः कस्यापदोऽस्तं गताः?, स्त्रीभिः कस्य न खण्डितं भुवि मनः? को नाम राज्ञां प्रियः? । कः कालस्य न गोचरान्तरगतः?
कोऽर्थी गतो गौरवं ?, को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ? ॥ ६४ ॥” ततोऽन्येद्युस्तयाऽभाणि, IN सार्थनाथोऽचलो यथा । त्वमद्य देवदत्ताऽग्रे, स्वस्य ग्रामगमं वद ॥ ६५ ॥ मूलदेवं गृहे येन, सा प्रवेशयति ।
द्रुतम् । ततः प्रदोषवेलायामागत्य निगृहाण तम् ॥ ६६ ॥ एवमुक्तेन तेनापि, सर्वमेतदनुष्ठितम् । देवदत्ता ततो । हृष्टा, मूलदेवमथाह्वयत् ॥ ६७ ॥ विज्ञाय तं समायातमचलस्तजिघृक्षया । पुरुषैर्वेष्टयामास, सर्वतस्तन्निकेतनम् ।
॥ मूलदेवो भयत्रस्तः, पर्याधो व्यवस्थितः, । खडव्यग्रकरस्तस्मिन्नचलोऽपि समागतः ॥ ६९ ॥ उपविष्टश्च पल्यङ्केऽवगम्य तमधः स्थितम् । देवदत्ता समादिष्टा, स्नानहेतुप्रसिद्धये ॥ ७० ॥ आदेशानन्तरं सर्व. तस्य निष्पाद्य शासनम् । समस्तस्नानपोतं च, बभाणैतदसावमुम् ॥ ७१ ॥ एतत्त्ववचनान्नाथ !, स्नानाय प्रगुणीकृतम् । आसनादि तदुत्तिष्ठ, स प्राहात्रैव मज्ज्यताम् ॥ ७२ ॥ पल्यङ्कारूढ एवाहं, यतः स्नास्यामि सुन्दरि! । तयोदितं भवत्वेवं, किन्तु शय्या विनङ्ख्यति ॥ ७३ ॥ सोऽवदच्छोभनामन्यां, कारयिष्याम्यहं प्रिये! । तस्मादानीयतामेतच्चि
Jain Education in
For Private Personal Use Only
SAww.jainelibrary.org