SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ 16a नवपदबृहवृत्तौ अदत्तादानव्रते कथा ॥ १२०॥ विलम्ब्य सा । मूलदेवस्य विज्ञानं, स्मरन्ती समभाषत ॥ ५० ॥ मत्ता करेणुकाऽहं किं ?, क्षिप्तो येनैवमग्रतः । | मण्डिकममायमिक्षुसंभारः, संस्कारपरिवर्जितः ॥ ५१ ॥ इदानीं गच्छ मातस्त्वं, मूलदेवमिदं वद । येन तस्यापि विज्ञानसारासारत्वमीक्ष्यते ॥ ५२ ॥ ततः सा मूलदेवस्य, समीपमागमद् द्रुतम् । संदेशं देवदत्तायाः, अवादीच्च सविस्तरम् । ॥ ५३ ॥ सोऽपि तत्कथनस्यान्ते, जगाम द्यूतमण्डपम् । जित्वा द्यूतकरीस्तत्र, ललौ दश कपर्दकान् ॥ ५४ ॥ शराव, संपुटं द्वाभ्यां, द्वाभ्यां सारेक्षुयष्टिके । चतुर्जातादिकं शेषैः, क्रीत्वा गेहमुपागतः ॥ ५५ ॥ ततोऽसाविक्षुयष्टी ते, घटित्वा हयगन्लान्यथ । चक्रे लघूनि खण्डानि, शूलाग्रैः स बबन्ध च ॥ ५६ ॥ चतुर्जातकसंस्कारं, तेषां कृत्वाऽतिपेशलम् । शरावसंपुटे पश्चात, स्थापयामास धूपिते ॥ ५७ ॥ आहूय देवदत्तायाः, दासचेर्टी ततोऽर्पयत । शराव. संपुटं साऽपि, गत्वा तस्या न्यवेदयत् ॥ ५८ ॥ तदेतन्मूलदेवेन, स्वामिनि ! प्रेषितं तव । अम्बामुखेन संदिष्टं, यत्त्वया - तस्य धीमतः॥५९॥ततः सा सादरं पाणी, प्रसार्य प्रतिगृह्य तत् । प्रोवाच जननीमम्ब !, पश्य पश्यान्तरं नृणाम्॥६० ॥ यतः-व्ययित्वाऽपि बहुद्रव्यमिक्षूणां भक्षणार्हताम् । अचलो न तथा चक्रे, मूलदेवो यथा सुधीः ॥ ६१ ॥ गाढमन्युभरावेगवशतिन्यसावपि । न ददावुत्तरं किञ्चित्तत्प्रभृत्येव केवलम् ॥ ६२ ॥ छिद्राणि मूलदेवस्य, वीक्षितुं सा प्रच. ॥१२०॥ Jain Education For Private & Personel Use Only allww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy